This page has not been fully proofread.

न्यायकोशः ।
 
१३५
 
मादायैव गतिः इति ( न्या० म० ४ पृ० २४ ) । [घ ] अव्यवधाने-
नान्वयप्रतियोग्यनुयोग्युपस्थिति: (चि० ४ ) ( तर्का० ४ पृ० १३ ) ।
[ङ ] यत्पदार्थेन सह यत्पदार्थस्यान्वयोपेक्षितस्तयोरव्यवधानेनोपस्थितिः
(मु० ४ पृ० १८५ ) । [ च ] वृत्त्या ( शक्तिलक्षणान्यतरसंबन्धेन )
पदजन्यपदार्थोपस्थितिः । सा च स्वरूपसती शाब्दबोधहेतुः न तु ज्ञाता
इति बोध्यम् ( न्या० म० ४ पृ० २४ ) ( म० प्र० ४ पृ० ५७ ) ।
२ प्रत्यक्षजनकः संनिकर्षः । यथा आसत्तिराश्रयाणां तु सामान्यज्ञान-
मिष्यते ( भा०प० लो० ६५ ) इत्यादौ ।
 
आसनम्
– स्थिरसुखमासनम् । तच्च पद्मासनभद्रासनवीरासनस्वस्तिकासन-
दण्डकासनसोपाश्रयपर्यङ्कक्रौञ्चनिषदनोष्ट्रनिषदनसमसंस्थान मेदादशविधम्
( सर्व० सं० पृ० ३७६ पातञ्ज० ) ।
 
आसुरः – ( विवाहभेदः ) आसुरो द्रविणादानात् ( याज्ञवल्क्य ० अ० १
 
-
 
लो० ६१ ) ।
 
आसेधः - राजाज्ञया अवरोध: ( मिताक्षरा अ० २ श्लो० ५ ) ।
 
-
 
आस्तिकः – १ [ क ] परलोकाद्यस्तित्ववादी । यथा सत्यवतीसुतो व्यासः ।
[ ख ] नरकभीरुरास्तिकशब्दवाच्यः ( त० प्र० ख० ४ पृ० १०५ ) ।
आस्तिकास्तु वेदान्तिमीमांसकादयो बहवः नास्तिकेभ्यो विभिन्नमतिका-
श्चेति बोध्यम् । २ जरत्कारुमुनिपुत्र ऋषिविशेषः ।
 
आस्रवः – [ क ]
 
औदारिकादिकायादिचलनद्वारेणात्मनश्चलनं योगपद-
वेदनीयम् ( सर्व० सं० पृ० ७३ आई० ) । [ ख ] आस्रवः
कर्मणां बन्धः ( सर्व० सं० पृ० ३६ आई० ) । आस्रवो भवहेतुः
स्यात्संवरो मोक्षकारणम् इति ( सर्व० सं० पृ० ८० आई० ) ।
 
स्वविरोधिधर्मधर्मितावच्छेदककं
 
-
 
आहार्यम् – १ ( प्रत्यक्षम् ) [ क ]
-
स्वप्रकारकं ज्ञानम् । यथा निर्वह्निः पर्वतो वह्निमान् इति ज्ञानम् ( ग०
सामा० २ पृ० १९ ) । तथा हि स्वं वह्निः । तस्य विरोधी धर्मः
बहघभावः । स एव धर्मितावच्छेदको यस्मिन् ज्ञाने तत् । किंच स्वं