This page has not been fully proofread.

न्यायकोशः ।
 
गगनकमलं सुरभि कमलत्वादित्यत्र
 
कमले पक्षे गगनीयत्वाभावः
( न्या० म० २ पृ० २१ ) । यथा वा काञ्चनमयः पर्वतो वह्निमा-
नित्यादौ पर्वते काञ्चनमयत्वस्याभावः (मु० २ पृ० १६१ ) ( गौ०
वृ० १।२।७)। अत्र पर्वतो न काञ्चनमयः इति ज्ञाने विद्यमाने
काञ्चनमये पर्वते वह्निव्याप्यधूमवान्काञ्चनमयपर्वतः इति परामर्श प्रति-
बन्धः फलम् । यथा वा अनित्यगगनं रूपवदित्यादौ गगनादेरनित्यत्वा
दिकम् आश्रयासिद्धिः ( दीवि० २ पृ० २१७) ।
 
.
 
१३४
 
.
 
आसत्तिः–१ [ क ] एकेनैव पुंसा पदानाम् अविलम्बेनोच्चारितत्वम्
( त० मा० ४ पृ० १८ ) । एतस्य ज्ञानं च शाब्दबोधस्य जनकमिति
विज्ञेयम् । अत एव एकैकशः प्रहरे प्रहरे असहोच्चारिते गामानयेत्यादौ
नान्वयबोधः । संनिधेरभावात् इति ( त० कौ० ४ पृ० १७ )
( त० सं० ) । [ ख ] पदानामविलम्बेनोच्चारणम् ( त० सं० ) ।
तदर्थश्च अविलम्बेन पदार्थोपस्थितिः ( त० दी० ४ पृ० ३२ ) ।
अथवा तत्पदे तत्पदाव्यवहितत्वम् । तथा च गोपदनिष्ठं अम्पदा-
व्यवहितत्वम् गोपदे अम्पदसंनिधिरित्यर्थः ( वाक्य० पृ० १९ )।
यथा गामानय शुक्लां दण्डेनेति वाक्ये पदानामविलम्बे नोच्चारणात्
संनिधिरूपा आसत्तिः ( त० कौ० ४ पृ० १७ ) ( भा० प० श्लो०
८४ ) । [ग ] प्रकृतान्वयबोधानुकूलव्यवधानाभाव आसत्तिरिति
प्राञ्चः । अन्वयप्रतियोग्यनुयोग्यर्थोपस्थापकपदयोरव्यवधानमित्यर्थः ।
तेन गिरिर्मुक्तमग्निमान् देवदत्तेनेत्यादौ नातिव्याप्तिः ( म० प्र० ४
पृ० ५७ ) । इदं लक्षणत्रयं ( क ख ग इत्यत्र विद्यमानम् )
प्राचीनमतमनुसृत्योक्तमिति बोध्यम् । नव्यास्तु नैतादृश्या आस-
तेर्ज्ञानं शाब्दबोघे कारणम् । किंतु अव्यवहितपदतात्पर्यमासत्तिः
तज्ज्ञानं शाब्दबोधे कारणमित्याहुः ( न्या० म० ४।२३ - २४ ) )
( म० प्र० ४ पृ० ५७) । तत्तात्पर्य च एतत्पदं एतत्पदाव्यवहितो-
त्तरमभिसंदधातु इत्यभिसंधापयितुरिच्छा । अत एव मौनिश्लोकेप्या-
सत्तिः । वक्तुरभावेप्यनुसंधातुः सत्त्वात् । शुकवाक्ये च भगवत्तात्पर्य -