2023-10-20 18:36:16 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
<आश्रयासिद्धः>
( हेत्वाभास : ) [ क ] यस्य हेतोराश्रयो नावगम्यते सः ।

[ ख ] यस्य हेतोः पक्षोप्रसिद्धः सः । स च आश्रयासिद्धः पक्ष-

तावच्छेदकाभाववत्पक्षकः । यथा गगनारविन्दं सुरभ्यरविन्दत्वात्सरोजा-

रविन्दवदित्यनार विन्दत्वमाश्रयासिद्धम् ( त० सं० ) ( प्र० प्र० )

( त० कौ० २ पृ० १४ ) ( त० भा० पृ० ४५ ) । आश्रयासिद्ध-

शब्दार्थस्तु आश्रयस्य पक्षस्य असिद्धिः पक्षे पक्षतावच्छेदकस्याभावः

तद्वान् इति । एतल्लक्षणं च वक्ष्यमाणाश्रयासिद्धिमत्त्वमेवेति बोध्यम्

( वाक्य० २ पृ० १७ ) । अनन्तरोदाहरणे गगनारविन्दमाश्रयः स

च नास्त्येव ( त० भा० पृ० ४५ ) ( त० सं० ) । अत्र चारविन्दे पक्षे

गगनीयत्वं पक्षतावच्छेदकं नास्तीत्यरविन्दत्वं हेतुराश्रयासिद्धः । आश्रया-

सिंद्धस्य हेत्वाभासत्वं त्वित्थम् । आश्रयासिद्धत्वज्ञानं च परामर्शप्रतिबन्ध -

कम् । अत्र आश्रयासिद्धत्वज्ञानस्य पक्षे पक्षतावच्छेदकवैशिट्यावगाहि-

ग्रहप्रतिबन्धकत्वेन परामर्श प्रतिबन्धकत्वमिति ज्ञेयम् । अरविन्दे गगनी-

यत्वं नास्ति इति ज्ञाने सुरभित्वव्याप्यारविन्दत्ववद्गगनारविन्दम् इति

परामर्शासंभवात् । एतस्य परामर्शस्य अरविन्दे गगनीयत्वसंबन्धावगा-

हित्वात् इति ( त० कौ० २ पृ० १४ ) । तथा च अरविन्दे गगनी-

यत्वाभावे निश्चिते गगनीयत्वविशिष्ट रविन्दे सौरभानुमितिप्रतिबन्धः

फलम् (न्या० बो॰ २ पृ० १८ ) । आश्रयासिद्धो द्विविधः असदा-

श्रयासिद्धः असाधकश्चेति । तत्राद्यो यथा गगनारविन्दं सुरभि अर-

विन्दत्वात् सरोजार विन्दवत् इति । द्वितीयो यथा ईश्वरवादिनं प्रति

क्षित्यादिकं सकर्तृकम् कार्यत्वाद्धटवत् इति । अत्र साध्यस्य निश्चितत्वेन

पक्षे साध्यसंदेहानुपपत्तौ संदिग्धसाध्यवतः पक्षस्याभावादाश्रयासिद्धि-

बोध्या ( प्र० च० पृ० ३१ ) ।
 

 
<
आश्रयासिद्धिः>
( हेतुदोषः ) ज्ञानस्य विषयतया विशिष्टपक्षग्रहविरो-

धितावच्छेदकं रूपम् ( दीधि ० २ पृ० २१७) । तच्च रूपम् पक्षता-

वच्छेदक विशिष्टपक्षासिद्धिः । अथवा पक्षतावच्छेदकाभाववान् पक्षः ।

यद्वा पक्षे पक्षतावच्छेदकस्याभावः ( न्या० बो० २ पृ० १८) । यथा