This page has not been fully proofread.

१३२
 
न्यायकोशः ।
 
आशंसनम् - आशीर्वादवदस्यार्थोनुसंधेयः ।
 
L
 
आशयः आ फलविपाकाच्चित्तभूमौ शेरत इत्याशयाः धर्माधर्मसंस्काराः
( सर्व० सं० पृ० ३६५ पातञ्ज० ) ।
 
आशा — अनिर्ज्ञातप्राप्येष्टार्थप्रार्थना ( काठ० ११८ भाष्यम् ) । रमाई
 
आशी:-[ क ] वक्त्रिच्छाविषयत्वम् । यथा घटमानय इत्यादौ लोडर्थः ।
अत्र घटकर्मकमदिच्छाविषयानयनानुकूलकृतिमांस्त्वम् इत्यर्थः (तर्का० ४
पृ० १४ ) । यथा वा आयुराशास्तेयं यजमानोसौ ( तैत्तिरीयब्राह्मणे
३।५।१० ) इत्यादावाङ्पूर्वकशास्धात्वर्थः । [ ख ] शाब्दिकास्तु
हितविषयिका लोडाद्यन्तशब्दप्रयोक्त्रिच्छा । यथा भवतु ते शिवप्रसाद
इत्यादौ लोडर्थः इत्याहुः । अत्र हितविषयकमदिच्छाविषयो यस्त्व-
त्संबन्धिशिवप्रसादस्तत्कर्तृकं भवनम् इति बोध: ( वै० सा० द० पृ०
१२९ ) । [ ग ] इष्टार्थाविष्करणमिति कश्चिद्वक्ति । यथा यां वै
कांचन यज्ञ ऋत्विज आशिषमाशासते यजमानस्यैव सा ( शत० ब्रा०
१।३। १ । २६ ) इत्यादौ ( वाच० ) ।
 
आशीर्लिङ् – (लिङ् ) य आशंसनस्य भावित्वस्य च बोधको लकारः स
आशीर्लिङित्युच्यते । यथा भूयात् भूयास्तामित्यादावाशीर्लिङ् । जीवतु
भवानित्यादौ तु लोडादिकं आशंसनीयत्वस्य बोधकमपि न भावित्वस्य ।
जीविष्यतीत्यादौ भावित्वस्य बोधकोपि ऌडादिर्नाशंसनीयत्वस्य बोधकः ।
अतो न तत्र लोट्लडादौ अतिप्रसङ्गः । आशीर्लिङ् प्रत्ययस्तु प्रकृत्यर्थस्याशंसां
भावित्वं चानुभावयतीति लक्षणसमन्वयो बोध्यः ( श० प्र० पृ०
१६२) ।
 
आशौचम् – न शुचिः अनुचिः । तस्य भाव आशौचम् । आशौचशब्देन
च कालविशेषस्नानाद्यपनोद्यः पिण्डोदकदानादिविधेरध्ययनादिपर्युदासस्य
च निमित्तभूतः पुरुषगतः कश्चनातिशयः कथ्यते ( मिताक्षरा
अ० ३।१ ) ।
 
आश्रयत्वम्-अधिकरणतावदस्यार्थोनुसंधेयः ।