न्यायकोशः /185
This page has not been fully proofread.
न्यायकोशः ।
१३१
आलस्यम् – १ कृतेरभाव: ( सि० च० १ पृ० ३ ) । शरीरवाचि
त्तगुरुत्वादप्रवृत्तिरालस्यम् ( सर्व० सं० पृ० ३५५ पातञ्ज० ) । २ आ-
लस्यं गुणविशेष इति केचिदाहुः ।
०
-
आलोक: - १ सूर्यादितेज:प्रकाशः । यथा गृह्णाति चक्षुः संबन्धादा-
लोकोद्भूतरूपयोः ( भा० प० श्लो० ५६ ) इत्यादौ । २ दर्शनम् ।
यथा यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलताम् ( शाकु० ) इत्यादौ ।
आलोचनम् – १ विशेषधर्मादिना विवेचनम् । २ चाक्षुषज्ञानम् ।
सांख्यास्तु सामान्य विशेषशून्यतयेन्द्रियजन्यो निर्विकल्पकस्थानीयोन्तःक-
रणवृत्तिविशेष इत्याहुः ( वाच० ) ।
-
आवरणम् – १ प्राप्तिप्रतिषेधः (वात्स्या० ११२१८)। २ अविद्येति माया-
वादिनों जगुः । ३ बाह्यं तम इति माध्वाः । ४ आच्छादन मिति काव्यज्ञाः ।
आवापः – १ आनयनम् । २ आक्षेप इति केचित् । ३ संग्रहः । घटं
नय गामानय इत्यावापोद्वापाभ्यामित्यादौ । ४ प्रधानहोम आवाप इति
याज्ञिका आहुः ( वाच० ) । ५ यस्त्वावृत्त्या बहूनुपकरोति स आवापः
( जै०
० सू० वृ० अ० ११ पा० १ सू० १ ) ।
आविर्भाव: - १ उत्पत्तिः । यथा मृदो घटस्याविर्भावः । २ सांख्यास्तु
प्रकाशात्मिका अभिव्यक्तिरराविर्भावः । यथा कूर्मशरीरादङ्गानामाविर्भाव
इत्याहुः ( वाच ० ) । इत्थं हि सांख्या मायावादिवेदान्तिनश्च वदन्ति ।
एकस्या मृदः सुवर्णस्य वा घटमुकुटादयो विशेषा निःसरन्त आविर्भवन्त
उत्पद्यन्त इत्युच्यन्ते । न पुनरसतामुत्पादः सतां वा निरोधः इति ।
नैयायिकास्तु बुद्धिशब्द कार्यकालाकारसंख्यादिभेदात्कार्यस्य कारणाद्भि-
नतया ( श्रीभाष्य० २।१।१५) कारणादुत्पत्तिरिति प्राडुः ।
आवृत्तिः– ९ पुनः पुनरभ्यासः । भूय एकजातीयक्रियाकरणमिति यावत् ।
यथा आवृत्तिरसकृदुपदेशात् (ब्र० सू० ४ । १ । १ ) इत्यादौ श्रोतव्यो मन्तव्य
इति श्रवणादीनामावृत्तिः । यथा वा आवृत्तिः सर्वशास्त्राणां बोधादपि
गरीयसी ( उद्भटः ) इत्यादौ । २ स्वस्थानस्थितस्य पदस्य पदसमूहस्य
वा पुनरनुसंधानम् ( दि० ४ पृ० १८८) । यथा हलन्त्यम्
( १ । ३ । ३ ) इति पाणिनिसूत्रस्यान्योन्याश्रयदोषवारणाय पुनरनुसंधानम् ।