This page has not been fully proofread.

१३०
 
न्यायकोशः ।
 
आरामः-- पुष्पफलोपचयहेतुर्भूभागः ( मिताक्षरा व्य० श्लो० १५४ )।
आरोपः – भ्रमवदस्यार्थोनुसंधेयः ।
 
-
 
आरोहणम् – ऊर्ध्वदेशावच्छिन्नसंयोगानुकूलक्रिया । यथा आरूढवानरो वृक्षः
इत्यादौ । अत्र आरूढो वानरो यम् इति व्यासे क्तप्रत्ययस्याश्रयोर्थः ।
द्वितीयाया आधेयत्वम् । तथा च वृक्षवृत्त्यूर्ध्वदेशावच्छिन्नसंयोगानुकूल-
क्रियाश्रयो वानरः इत्यन्वयबोधः । समासे तु आरोहणकर्तृवानरसंबन्धी
वृक्षः इत्यन्चयबोधः । संबन्धश्च तत्र स्वकर्तृकारोहणकर्मत्वरूपः ( त ०
प्र० ख० ४ पृ० ४९ )।
 
आर्थीभावना – १ प्रयत्नविशेषः । २ अन्योत्पादनानुकूलव्यापारसामान्यम्
( मी० न्या० पृ० ७२ )।
 
-
 
आर्षम् – १ ( विद्या ) आम्नायविधातृणामृषीणामतीतानागतवर्तमानेष्वर्थे-
ष्वतीन्द्रियेषु धर्मादिषु ग्रन्थोपनिबद्धेष्वनुपनिबद्धेषु चात्ममनसोः संयोगवि-
शेषाद्धर्मविशेषाच्च यत्प्रातिभं प्रतिभाजन्यं ज्ञानं यथात्मनिवेदनमुत्पद्यते
तत् आर्षम् इत्याचक्षते । तच्च ज्ञानं बाहुल्येन देवर्षीणाम् ।
कदाचिदेव लौकिकानाम् । यथा कन्यका ब्रवीति श्वो मे भ्राता
आगन्ता इति हृदयं मे कथयति इति । सिद्धदर्शनं न ज्ञानान्तरम् ।
कथम् । यत्सूक्ष्मव्यवहितविप्रकृष्टेष्वर्थेषु सिद्धानां द्रष्टृणामञ्ज नपादलेपगुटि -
कादिसिद्धीनां दर्शनं तत्प्रत्यक्षमेव । दिव्यान्तरिक्ष भौमानां ग्रहनक्षत्र-
संचारादि निमित्तमुपलभ्य प्राणिनां धर्माधर्मविपाकदर्शनं यत् तदनुमान-
मेव । अथ लिङ्गानपेक्षं धर्मादिदर्शनं तदार्षप्रत्यक्षयोरन्यतरस्मिन्नन्तर्भूतम्
इति ( प्रशस्त ० गुण० पृ० ३२ ) । २ विवाहमेदः । आदायार्षस्तु
गोद्वयम् । यत्र पुनर्गोमिथुनमादाय कन्या दीयते स आर्षः ( मिताक्षरा
अ० १ श्लो० ५९ )।
 
4
 
आलम्बनम् –
 
-
 
यस्मिन्विज्ञाने यदवभासते तत्तदालम्बनम् ( सर्व० सं०
 
पृ० ४२२ शां० ) ।
 
१ अत्र पाठान्तरम् - कथम् । प्रत्यक्षानुमानाभ्याम् । तत्र प्रत्यक्षेण विप्रकृष्टपदार्थ -
दर्शनम् । अनुमानेन तु दिव्यान्तरिक्ष • इति ।