This page has not been fully proofread.

न्यायकोशः ।
 
१२९
 
। आरब्धकर्माङ्गम् कर्मार्थितया शिष्ठस्तत्पूर्व क्रियमाणत्वात् प्रयाजादिवत्
( चि० १ पृ० १९ ) इत्यादावारब्धकर्म । चरमवर्णसमूहो नाम चरम-
वर्णपर्यन्तवर्णसमूहः । केचित्तु कण्ठताल्वाद्यभिघातदृष्टप्रतिबन्धकाभावा-
दिरेवारब्धकर्मेत्याहुः । ३ वेदान्तिनस्तु फलदानाय संमुखः पुण्यपापान्य-
तरात्मकः अदृष्टविशेषः । यथा प्रारब्धकर्मणो भोगादेव परिक्षय इत्यादौ
नाममा
प्रारब्धकर्म इति वदन्ति ।
 
२०
 
आरम्भः - १ आद्यप्रवृत्तिः । यथा अथेदमारभ्यत इत्यादौ आडुपसर्ग-
पूर्वकरभधातोरर्थः । २ अप्रवृत्तस्याद्या प्रवृत्तिः । यथा सृष्यारम्भः ।
३ कर्तव्यकर्मचिकीर्षेति मीमांसकाः (मू० म० १) । ४ औत्सुक्यमारम्भ
इति नाटकालंकारज्ञा वदन्ति । तदुक्तं प्रतापरुद्रे औत्सुक्यमात्रमारम्भः
परिरम्भाय भूयसे इति । ५ ज्ञातुः ईप्साप्रयुक्तस्य सुखसाधनावाप्तये स
भीहाविशेषः ( वात्स्या० १११११ प्रस्तावना ) । हामीसि
 
आरादुपकारकम् – द्रव्याद्यनुद्दिश्य केवलं विधीयमानं कर्म ( मी० न्या०
 

 

 
पृ० ३६ ) ।
TS BITER UPP PP
 
कीि
 
आराधनम् - [क] गौरवितवृत्तिनिष्ठप्रीतिहेतुभूता क्रिया (त० प्र० २)
( ग० शक्ति ० ) । अन्न गौरवितवृत्तित्वमुपलक्षणम् ( कृष्ण० श० ) ।
गौरवं त्वाराध्यत्वावगाही ज्ञानप्रभेदः । अयं ज्ञानप्रमेद एव भ
क्तिरित्युच्यते ( श० प्र० पृ० ९५ ) । [ ख ] गौरवितप्रीतिहेतु-
क्रिया ( कि० व० ४ ) । [ग] गौरवप्रयुक्तप्रीत्यवच्छिन्नक्रिया ।
यथा पितरमाराधयति उपास्ते पूजयतीत्यादौ धात्वर्थः । अत्रेदं बोध्यम् ।
परमात्मानमाराधयतीत्यादौ गौरवप्रयुक्तक्रियामात्रमाराधनम् । तदेव
लक्षणया धात्वर्थः । तेन न परमात्मनः प्रीतिविरहादयोग्यत्वापत्तिः ।
अत्रायं विशेषो ज्ञेयः। पित्रादिसेवायाश्च मन्त्रकरणकत्वाभावान्न तत्र पितरं
• यजते इत्यादिकः प्रयोगः । अत्र धात्वर्थनिविष्टयोर्गौरवप्रीत्योः क्रमेण
विषयत्वाघेयत्वाभ्यां पित्रादेरन्वयः । तेन पितृगोचरगौरवप्रयुक्ता या
• पितृनिष्ठप्रीतिहेतुक्रिया तद्वान् इत्येवं बुद्धिः ( श० प्र० पृ० ९५ ) ।
 
१७ न्या० को०