2023-10-20 18:25:20 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१२८
 
न्यायकोशः ।
 
स्वाभिलषिते कामचारेण प्रवृत्तस्येष्टसाधनताबोधनम् । यथा इहासीतेति ।

अत्र उपवेशनादिव्यापारे इष्टसाधनताज्ञानात्प्रवृत्तावितरत्राप्रवृत्तिरर्थतः

फलति इति बोध्यम् । यद्वा अनुज्ञातुः प्रवृत्तप्रयोजनस्येतरप्रवृत्तिप्रति-

बन्धेनैतत्प्रवृत्तिविषय इष्टसाधनताबोधनम् । यथा आरब्धं कुरुत

तत्कुरुष्व यथाहितमित्यादावामन्त्रणं लोडर्थः इत्याहुः ( वै० सा० द०

पृ० १३१ - १३२ )।
 
-
 

 
<
आमिक्षा>
तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिम्यो वाजिम्

इति श्रूयते । तत्र घनीभूतः पयः पिण्ड आमिक्षा जलं वाजिनम्

( जै० न्या० अ००२ पा० २ अघि० ९ ) ।
 

 
<
आम्नायः - >
१ सम्यगभ्यासः । अत्र सम्यक्त्वं च नियमधारणपूर्वकत्वम् गुरु-

मुखश्रवणपूर्वकत्वं चेति बोध्यम् ( वाच ० ) । २ सम्यक् पाठः । ३ वेदः ।

 
<
आयतनम्>
१ अवच्छेदकम् (नील० पृ० ७ ) । यथा आत्मनो भोगा-

यतनं शरीरमित्यादौ । २ प्रतिमेति वैदिका वदन्ति । यथा देवतायत

नानि हसन्ति रुदन्तीत्याद्याथर्वणश्रुतौ । ३ आश्रयः स्थानं वेति बौद्ध-

काव्यज्ञा आहुः ।
 

 
<
आयीभावः - >
विद्यमान एव अकारस्योपरितन इकार: सामप्रसिद्ध्या प्रक्रि-

यया वृद्धः सन्नैकारो भवति । तस्य संध्यक्षरत्वादकार: पूर्वभाग: ईकार

उत्तरभागः । तावुभौ विश्लेषेण गीयमानावायीभावं प्रतिपद्येते ( जै०
 

न्या० अ० ९ पा० २ अधि० ९ ) ।
 

 
<
आयोजनम्>
१ कर्म । यथा कार्यायोजनधृत्यादेः पदाव्प्रत्ययतः श्रुते-

रित्यादौ ( कु० ५/१ ) ( दि० १ पृ० १९) । २ व्याख्यानम् ।

यथा वेदास्तदर्थविदायोजिताः इत्यादौ । व्याख्याता इत्यर्थः ।

 
<
आरब्धकर्म>
१ तत्सामग्रीसंपादनम् ( मू० म० १ पृ० २४ ) ।

दिस्थले दण्डचऋादिरूपसामग्रीसंपादनम् । २ चरमवर्णसमूहो

( मू० म० १ पृ० २३ ) । यथा ग्रन्थस्थले तच्चेदम् मङ्गलम्
 
घटा
 
-
 
-