This page has not been fully proofread.

१२८
 
न्यायकोशः ।
 
स्वाभिलषिते कामचारेण प्रवृत्तस्येष्टसाधनताबोधनम् । यथा इहासीतेति ।
अत्र उपवेशनादिव्यापारे इष्टसाधनताज्ञानात्प्रवृत्तावितरत्राप्रवृत्तिरर्थतः
फलति इति बोध्यम् । यद्वा अनुज्ञातुः प्रवृत्तप्रयोजनस्येतरप्रवृत्तिप्रति-
बन्धेनैतत्प्रवृत्तिविषय इष्टसाधनताबोधनम् । यथा आरब्धं कुरुत
तत्कुरुष्व यथाहितमित्यादावामन्त्रणं लोडर्थः इत्याहुः ( वै० सा० द०
पृ० १३१ - १३२ )।
 
-
 
आमिक्षा — तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिम्यो वाजिम्
इति श्रूयते । तत्र घनीभूतः पयः पिण्ड आमिक्षा जलं वाजिनम्
( जै० न्या० अ००२ पा० २ अघि० ९ ) ।
 
आम्नायः - १ सम्यगभ्यासः । अत्र सम्यक्त्वं च नियमधारणपूर्वकत्वम् गुरु-
मुखश्रवणपूर्वकत्वं चेति बोध्यम् ( वाच ० ) । २ सम्यक् पाठः । ३ वेदः ।
आयतनम् – १ अवच्छेदकम् (नील० पृ० ७ ) । यथा आत्मनो भोगा-
यतनं शरीरमित्यादौ । २ प्रतिमेति वैदिका वदन्ति । यथा देवतायत
• नानि हसन्ति रुदन्तीत्याद्याथर्वणश्रुतौ । ३ आश्रयः स्थानं वेति बौद्ध-
काव्यज्ञा आहुः ।
 
आयीभावः - विद्यमान एव अकारस्योपरितन इकार: सामप्रसिद्ध्या प्रक्रि-
यया वृद्धः सन्नैकारो भवति । तस्य संध्यक्षरत्वादकार: पूर्वभाग: ईकार
उत्तरभागः । तावुभौ विश्लेषेण गीयमानावायीभावं प्रतिपद्येते ( जै०
 
न्या० अ० ९ पा० २ अधि० ९ ) ।
 
आयोजनम् – १ कर्म । यथा कार्यायोजनधृत्यादेः पदाव्प्रत्ययतः श्रुते-
रित्यादौ ( कु० ५/१ ) ( दि० १ पृ० १९) । २ व्याख्यानम् ।
• यथा वेदास्तदर्थविदायोजिताः इत्यादौ । व्याख्याता इत्यर्थः ।
आरब्धकर्म – १ तत्सामग्रीसंपादनम् ( मू० म० १ पृ० २४ ) ।
दिस्थले दण्डचऋादिरूपसामग्रीसंपादनम् । २ चरमवर्णसमूहो
( मू० म० १ पृ० २३ ) । यथा ग्रन्थस्थले तच्चेदम् मङ्गलम्
 
घटा
 
-
 
-