This page has not been fully proofread.

न्यायकोशः ।
 
१२५
 
दिव्यतेजःसंयोगात्तु तत्र द्रवत्वप्रतिरोधः । काठिन्यप्रतीतिस्तु तत्र
गीय भ्रान्तिरेव । केचित्तु दिव्यतेजः संयोगाज्जलपरमाणुभ्यां द्व्यणुकम् । तैश्च
 
त्रसरेण्वादिकं क्रमेण हिमादौ जायते । तादृशद्व्यणुकादिकं च द्रवत्व-
रहितं कठिनमेवेति हिमादौ काठिन्यप्रतीतिर्न भ्रान्तिरित्याहु: (वै० वि०
२ । १ । २ ) । तत्र करकाया उत्पत्तिकारणं तज्जन्यगुणाश्च भावप्रकाशे
दर्शिताः । यथा दिव्यवाय्वग्निसंयोगात्संहताः खात्पतन्ति याः । पाषाण-
खण्डवच्चापस्ताः कारिक्योमृतोपमाः ॥ करकाजं जलं रूक्षं विशदं गुरु
सुस्थिरम् । दारुणं शीतलं सान्द्रं पित्तहृत् कफवातकृत् ॥ इति ( वाच० ) ।
अप्सु चतुर्दश गुणा वर्तन्ते । अभास्वरं शुकरूपम् मधुरो रसः शीतः
स्पर्श: संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम्
गुरुत्वम् सांसिद्धिकं द्रवत्वम् स्नेहः वेगश्चेति । स्थितिस्थापकाख्य-
संस्कारोपि जले वर्तत इति केचित् ( त० कौ० १ पृ० २) ( त०
भा० पृ० २७ ) (भा०प० श्लो० ३१ ) । अत्राभास्वरं च परा-
प्रकाशकम् ( प० मा० ) । वियति विक्षेपे जले धवलिमोपलब्धेर्जले
शुक्लरूपमेव ( मु० १ पृ० ७५ ) । यदि तु वियति विक्षिप्तजल
उपलभ्यमानो धवलिमा तेजोगत एव तत्र भासत इत्युच्येत तदा घट-
गतरूपमपि तेजोगतमेव किं न स्यात् इति । कालिन्दीजलादौ नीलि-
मोपलब्धिस्त्वाश्रयौपाधिकी भ्रान्तिरेवेति (मु० १ पत्र० ७५ ) । यद्यपि
जले कोपि रसो नानुभूयते तथापि हरीतक्यादिकषायद्रव्यभक्षणानन्तरं
जलमाधुर्यमभूव । तस्य तद्व्यञ्जकत्वात् । न च जलसंयोगाद्धरी-
तक्यादावेव माधुर्योत्पत्तिरिति वाच्यम् । पात्रस्थहरीतक्यादावपि जल-
संयोगेन मधुरिमोत्पत्त्यापत्तेः । हरीतक्यां चामलक्यामिव कषाय एव
रसोनुभूयते । कर्कटीभक्षणानन्तरं जलस्य या तिक्ततोपलभ्यते
कर्कट्या एव । जलमन्तरेणापि तहात् । जम्बीररसादावम्लोपलब्धिः
करवेल्ल-(करवीर-) रसादौ तिक्तत्वोपलब्धिश्चेतेन व्याख्याता । सूर्य-
करादिसंयोगाज्जले य उष्णस्पर्श: प्रतीयते सोषि सूर्यकरादेरेव । स्नेहस्तु
 
Mots
 
सा
 
जल एव । घृतादावपि तदुपष्टम्भकजलस्यैव स्नेहः । स्नेहप्रकर्षाच्च
 
.