न्यायकोशः /178
This page has not been fully proofread.
१२४
न्यायकोशः ।
-
आन्वीक्षिकी – प्रत्यक्षागमाश्रितमनुमानं सा अन्वीक्षा । प्रत्यक्षागमाभ्या-
मीक्षितस्यानु ईक्षणमन्वीक्षा । तया प्रवर्तत इत्यान्वीक्षिकी न्यायविद्या
न्यायशास्त्रम् (वात्स्या० १ । १ । १९ ) । यथा
महर्षिगौतमप्रणीतं न्याय-
दर्शनम् । श्रवणादनु पश्चात् ईक्षा अन्वीक्षा उन्नयनम् । तन्निर्वा हिका-
न्वीक्षिकी । उपनिषदर्थश्चान्वीक्षिक्यनुसारी ग्राह्यः
( गौ० वृ०
१।१।१ ) । एतस्या विद्यायाः प्रमाणप्रयोजनादिकं तु न्यायशब्दव्याख्या-
नावसरे दृश्यम् ।
आपः - (द्रव्यम् ) [क रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाः (वै०
२।१।२ ) । [ख अवसामान्ययुक्ताः ( त० मा० पृ० २७)
( त० कौ० १ पृ० २) । यथा आपः स्वभावतो मेव्याः किं पुन
तल्लक्षणं च अभास्वरशुक्नेतररूपासमानाधिकरणा नैमित्तिकद्रवत्ववदवृत्तिर्वा
हियोगत इत्यादौ । [ग] शीतस्पर्शवत्यः (वै० २१२१५ ) ( त० सं० ) ।
रूपवद्वृत्तिः द्रव्यत्वसाक्षाद्व्याप्या च या जाति: तद्वत्त्वम् इत्यादि
( वै० उ० २१११२ ) (मु० १ पृ० ७४) । तादृशी जातिश्च जलव
मेव । अथवा नीलासमानाधिकरणा भास्वरशुक्लासमानाधिकरणा रूपव
द्वृत्तिद्रेव्यत्वसाक्षाद्व्याप्या च या जातिः तद्वत्त्वम् (वै० वि० २ १/२ ) ।
( त० दी० १ पृ० ८ ) । अवसामान्यं च सरित्सागरसमवेतत्वे सति
यद्वा शीतस्पर्शसमानाधिकरणा द्रव्यत्वापरा च या जाति: तद्वत्त्वम् ।
ज्वलनासमवेतं सामान्यम् (सर्वे० पृ० २१८ औलू० ) । आपो द्विविधाः ।
• नित्या अनित्याश्च । तत्र नित्याः परमाणुरूपाः । अनित्यास्तु कार्यरूपाः ।
अनित्यास्त्रिविधाः । शरीरम् इन्द्रियम् विषयश्च । तत्र शरीरमयोनिजं वरुण
लोके प्रसिद्धम् । तस्य च शरीरस्य पार्थिवावयवोपष्टम्भेनोपभोगसमर्थत्वम्
( प्रशस्त० पृ० ४ ) । इन्द्रियम् रसग्राहक रसनम् । तच्च जिह्वाग्रवर्ति ।
विषयः सरित्समुद्रादिर्हिमकरकादिश्च (त० सं० ) (भा०प० श्लो० ४१)
(त० मा० पृ० २७) ( त० कौ० १ पृ० २) । अत्रेदं बोध्यम् / हिम-
करकादीनां सांसिद्धिकं द्रवत्वमस्त्येव । परंतु तेषामदृष्टविशेषेण घनीभावा-
त्सासिद्धिकद्रवत्वप्रतिबन्धमात्रं कल्प्यत इति विज्ञेयम् (मु०) (सि० च०) ।