This page has not been fully proofread.

न्यायकोशः ।
 
१२३
 
आध्यात्मिकवायुः
 
– प्राणाख्यो वायुः । यथा वृक्षादीनां शरीरत्वे आध्या-
1 त्मिकवायुसंबन्धः प्रमाणमित्यादौ (मु० १ पृ० ७१ ) । अत्र आत्मानं
मनः शरीरादिकमधिकृत्य इति व्युत्पत्तिर्दृष्टव्या । अयं च विषयवायावन्त-
र्भवति इति विज्ञेयम् ।
 

 
-
 
आनतिः – भृत्या परिक्रीय वशीकार आनतिः ( जै० न्या० अ० १०
पा० २ अधि० ८ )।
 
आनन्तर्यम् - १ ध्वंसाधिकरणकालवृत्तित्वम् ( त० प्र० २ ) । यथा
वैशाखमासस्य चैत्रानन्तर्यम् । यथा वा अथ हेत्वाभासास्तत्त्वनिर्णय-
विजयप्रयोजकत्वान्निरूप्यन्ते इत्यादावथशब्दार्थोवयवान्तनिरूपणानन्तर्य
हेत्वाभासनिरूपणे बोध्यते । २ अव्यवधानम् । यथा आनन्तर्यात्स्वयो-
न्यास्तु तथा बाह्येष्वपि क्रमात् ( मनुः ) इत्यादौ ( वाच० ) ।
 
9
 
आनन्द:-
-१ सुखम् । यथा रसो वै सः । रस ५ ह्येवायं लब्ध्वानन्दी
भवति ( तै० उ० २।७।१ ) इत्यादौ । २ दुःखाभावः । यथा परमात्मन्या-
नन्दानङ्गीकारपक्षेपि भारापगमे सुखी संवृत्तः इत्यादाविव दुःखाभावरूप
आनन्दः (मु० १ पृ० १०३ ) । अत्र आनन्दशब्दो लक्षणया
दुःखाभावबोधक इति ज्ञेयम् ।
 
आनुपूर्वी – तदुत्तरत्वविशिष्टतदुत्तरत्वादिः । यथा घटमानयेत्यक्षराणामानु-
पूर्वी । यथा वा उचितानुपूर्वी प्रतिज्ञोत्तरहेतूत्तरोदाहरणोत्तरोपनयोत्तर-
निगमनत्वरूपेत्यादौ (ग० अव० पत्र० ४ ) । आनुपूर्वी च घटः इत्यत्र
स्वाव्यवहितोत्तरक्षणोत्पत्तिकत्वसंबन्धेन घकारविशिष्टटत्वम् इति चिन्त्या
( त० प्र० ख० ४ पृ० १२७ ) । एवमन्यत्राप्यूह्या ।
आनुपूर्व्यम् - क्रमः ( जै० सू० वृ० अ० ५ पा० १ सू० १ ) ।
आनुपङ्गिकम् -- उद्देश्यान्तरप्रवृत्तस्य तत्कर्मनान्तरीयकतया प्राप्तः प्रासङ्गि-
कोनुद्देश्यः कार्यविशेषः । यथा भो बटो भिक्षामट यदि गां पश्येस्तां चान-
येत्यादौ । अत्र भिक्षार्थ प्रवृत्तस्य दैवाद्गोदर्शनात्तस्या आनयनमानुषङ्गि-
कम् । तत्रोद्देश्यत्वाभावादिति बोध्यम् (वाच० ) ।
 
—————