2023-10-20 18:14:25 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१२२
 
न्यायकोशः ।
 
<आदिः>
१ तत्प्रागभावाधिकरणकालः । यथा आदौ द्रव्यं स्वीकुरु इत्यादौ ।
 
-
 

यथा वा आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते इत्यादौ ।

२ कारणम् । यथा आदिमत्त्वादैन्द्रिय कत्वात्कृत कवटुपचाराञ्च (गौ०

२।२।१४ ) इत्यादौ । अत्र आदीयते अस्मात् इति व्युत्पत्तिद्रष्टव्या
(

(
वात्स्या० २।२।१४ ) । ३ उत्पत्तिः । यथा अनादिः प्रागभाव

इत्यादौ । ४ परस्मिन्सति यस्मात्पूर्वो नास्ति स आदिरिति शाब्दिका वदन्ति ।

 
<
आदेशः -->
१ आज्ञा । २ स्थान्यर्थाभिधानसमर्थ इति शाब्दिका वदन्ति ।

३ कथनम् उपदेशो वा । यथा अथात आदेशः इत्यादौ इति वेदा-

न्तिन आहुः ।
 

 
<
आद्यत्वम्>
अनागन्तुकैश्वर्यसंबन्धित्वम् ( सर्व० सं० पृ० १६८ नकु० ) ।

 
<
आधारः - >
अतद्रूपोपि तद्रूपेणारोप्य बुद्धौ स्फुरन्नाधारः ( सिद्धा० ले०
 

पृ० १८६ ) ।
 

 
<
आधारता - >
अधिकरणतावदस्यार्थोनुसंधेयः । अयं चाखण्डोपाधिः इति ।
.

नैयायिका आहुः (वै० सा० सुबर्थ० पृ० ८६ ) (ग०
 
व्यु०
कार० ७ पृ० ११६) ।
 

 
<
आधि:- >
आघीयते विश्वासार्थं स्थाप्यत इत्याधि: ( गहाण इति प्र० ) ।

गृहीतस्य द्रव्यस्योपरि विश्वासार्थमधमर्णेनोत्तम अधिक्रियत आधीयत
 

इत्याधि: ( मिताक्षरा अ० २।५७ ) ।
 
-
 

 
<
आधिक्यम्>
व्यतिरेकवदस्यार्थोनुसंधेयः ( श० प्र० पृ० १२८ ) ।

 
<
आधिदेदैविकम्>
देवकृतम् । यथा वातादिनिबन्धनं दुःखम् ( वाच० ) ।
 
यथा
 

अत्र देवान् वातादीन् अधिकृत्य प्रवृत्तम् इति व्युत्पत्तिद्रष्टव्या ।

 
<
आधुनिकी - >
( लक्षणा) पूर्वपूर्वी तादूपयेणाप्रत्यायकत्वादाधुनिकी ।

घटत्वादिना पटादिपदस्य लक्षणा ( श० प्र० पृ० ३१ ) ।

 
<
आधेयता ->
[क] आधेयम् इति प्रतीतिनियामको धर्मविशेषः (वृत्तित्वम्) ।

यथा भूतलं घटवदित्यादौ घटे भूतलाधेयता । [ख] प्रकारताविशेष/

इति केचिद्वदन्ति ( ग० पक्ष० ) । [ग] अखण्डोपाधिरित्यन्ये वदन्ति ।
 
-