2023-10-20 06:13:04 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१२१
 
भिन्नाभिन्नः कथंचन । ज्ञानं पूर्वापरीभूतं सोयमात्मेति कीर्तितः ॥ (सर्व०

सं० पृ० ६९ आर्हत० ) । चैतन्यमात्मा ( सर्व० सं० पृ० १९६

प्रत्यभि० )। चैतन्यविशिष्टं देहमात्मेति लोकायता मन्यन्ते । इन्द्रियाण्या-

त्मेत्यन्ये । अन्तःकरणमात्मेत्यपरे । मुख्यः प्राण एवात्मेति चान्ये । पुत्र

एवात्मेति केचित् । क्षणभङ्गुरं संतन्यमानं विज्ञानमात्मेति बौद्धाः । देहा-

तिरिक्तो देहपरिणाम आत्मेति जैना जनाः प्रतिजानते । कर्तृत्वादिविशिष्टः

परमेश्वराद्भिन्नो जीवात्मेति नैयायिकाः । द्रव्यबोधस्वभावमात्मेत्याचार्याः

परिचक्षते । भोक्तैव केवलं न कर्तेति सांख्याः संगिरन्ते । चिद्रूपः

कर्तृत्वादिरहितः परस्मादभिन्नः प्रत्यगात्मेत्यौपनिषदाः ( सर्व० सं०

४१४ शांक ० ) ।
 
पृ०
 

 
<
आत्माश्रयः>
(तर्कः ) [क] स्वस्य स्वापेक्षापादकः प्रसङ्गः ( जग०

तर्क० ) । यथा कार्यत्वावच्छिन्नकार्यतानिरूपित कारणत्वं साधारण-

कारणत्वमित्यादौ । अत्र एकं कार्यत्वमवच्छेदकम् । अपरं त्ववच्छेद्यम् ।

तथा चावच्छेदकज्ञानं विना अवच्छेद्यज्ञानं न भवति । अवच्छेद्यज्ञानं

विनाप्यवच्छेदकज्ञानं च न भवति । परस्परसापेक्षत्वादित्यात्माश्रय इति

बोध्यम् । [ ख ] स्वस्य स्वापेक्षितत्वे अनिष्टप्रसङ्गरूपो दोषः । स

चोत्पत्तिस्थितिज्ञप्तिद्वारा त्रेधा । क्रमेण यथा यद्ययं घट एतद्धटजन्यः

स्यात्तदैतद्घटानधिकरणक्षणोत्तरवर्ती न स्यात् । यद्ययं घट एतद्धटवृत्तिः

स्यात् एतद्धटव्याप्यो न स्यात् । यद्ययं घट एतद्धटज्ञानाभिन्नः स्यात्

ज्ञानसामग्रीजन्यः स्यात् । एतद्धटभिन्नः स्यादिति वा । एवं सर्वत्रापाद्यम्

( गौ० व०,
० वृ० ११ १/४० ) । [ग] स्वज्ञाने स्वज्ञानापेक्षया आत्माश्रयः

( कृष्ण० ) ।
Free Curr

 
<
आदानम् —–>
यथेष्टविनियोगफलकः स्वीकारः । यथा विप्राद्धनमादत्ते इत्यादौ

दाधात्वर्थः ( का० व्या
 
०५
० पृ० १०) ।

 
<
आदानसमितिः
>
आसनादीनि संवीक्ष्य प्रतिलक्ष्य च यत्नतः । गृढीया-

न्निक्षिपेद्ध्यायेत्सादानसमितिः स्मृता ॥ ( सर्व० सं० पृ० ७९ आर्ह० ) ।
 
१६ न्या० को०