न्यायकोशः /175
This page has not been fully proofread.
न्यायकोशः ।
१२१
भिन्नाभिन्नः कथंचन । ज्ञानं पूर्वापरीभूतं सोयमात्मेति कीर्तितः ॥ (सर्व०
सं० पृ० ६९ आर्हत० ) । चैतन्यमात्मा ( सर्व० सं० पृ० १९६
प्रत्यभि० )। चैतन्यविशिष्टं देहमात्मेति लोकायता मन्यन्ते । इन्द्रियाण्या-
त्मेत्यन्ये । अन्तःकरणमात्मेत्यपरे । मुख्यः प्राण एवात्मेति चान्ये । पुत्र
एवात्मेति केचित् । क्षणभङ्गुरं संतन्यमानं विज्ञानमात्मेति बौद्धाः । देहा-
तिरिक्तो देहपरिणाम आत्मेति जैना जनाः प्रतिजानते । कर्तृत्वादिविशिष्टः
परमेश्वराद्भिन्नो जीवात्मेति नैयायिकाः । द्रव्यबोधस्वभावमात्मेत्याचार्याः
परिचक्षते । भोक्तैव केवलं न कर्तेति सांख्याः संगिरन्ते । चिद्रूपः
कर्तृत्वादिरहितः परस्मादभिन्नः प्रत्यगात्मेत्यौपनिषदाः ( सर्व० सं०
४१४ शांक ० ) ।
पृ०
आत्माश्रयः – (तर्कः ) [क] स्वस्य स्वापेक्षापादकः प्रसङ्गः ( जग०
तर्क० ) । यथा कार्यत्वावच्छिन्नकार्यतानिरूपित कारणत्वं साधारण-
कारणत्वमित्यादौ । अत्र एकं कार्यत्वमवच्छेदकम् । अपरं त्ववच्छेद्यम् ।
तथा चावच्छेदकज्ञानं विना अवच्छेद्यज्ञानं न भवति । अवच्छेद्यज्ञानं
विनाप्यवच्छेदकज्ञानं च न भवति । परस्परसापेक्षत्वादित्यात्माश्रय इति
बोध्यम् । [ ख ] स्वस्य स्वापेक्षितत्वे अनिष्टप्रसङ्गरूपो दोषः । स
चोत्पत्तिस्थितिज्ञप्तिद्वारा त्रेधा । क्रमेण यथा यद्ययं घट एतद्धटजन्यः
स्यात्तदैतद्घटानधिकरणक्षणोत्तरवर्ती न स्यात् । यद्ययं घट एतद्धटवृत्तिः
स्यात् एतद्धटव्याप्यो न स्यात् । यद्ययं घट एतद्धटज्ञानाभिन्नः स्यात्
ज्ञानसामग्रीजन्यः स्यात् । एतद्धटभिन्नः स्यादिति वा । एवं सर्वत्रापाद्यम्
( गौ० व०,
० वृ० ११ १/४० ) । [ग] स्वज्ञाने स्वज्ञानापेक्षया आत्माश्रयः
( कृष्ण० ) ।
Free Curr
आदानम् —–यथेष्टविनियोगफलकः स्वीकारः । यथा विप्राद्धनमादत्ते इत्यादौ
दाधात्वर्थः ( का० व्या०
०५० १०) ।
आदानसमितिः–
आसनादीनि संवीक्ष्य प्रतिलक्ष्य च यत्नतः । गृढीया-
न्निक्षिपेद्ध्यायेत्सादानसमितिः स्मृता ॥ ( सर्व० सं० पृ० ७९ आई० ) ।
१६ न्या० को०