2023-10-20 06:09:19 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१९९
 
आज्ञया नरपतेर्द्विजन्मनां दारकर्ममृतसूतके तथेत्यादौ इत्यपि कश्चिद्वक्ति ।

२ लग्नावविदशमभाव आज्ञेति ज्योतिःशास्त्रज्ञाः । ३ भ्रूमध्यस्थं सुषुम्ना -

नाड्यन्तर्गतमाज्ञाचक्रमिति तान्त्रिकाः ( वाच ० ) ।
 
-
 
आज्यत्वम् –

 
<आज्यत्वम्>
यदाजिमीयुः तदाज्यानामाज्यत्वम् (जै० न्या० अ० १

पा० ४ अधि० ३ )।
 

 

 
<
आज्यस्तोत्रम्>
अग्न आयाहि वीतये । आनो मित्रावरुण । आयाहि सुषुमा

हि ते । इन्द्रानी आगतं सुतम् । तान्येतानि प्रातः सवने गायत्रसाम्ना

गीयमानानि चत्वार्याज्यस्तोत्राणीत्युच्यन्ते ( जै० न्या० अ० १ पा० ४

अधि० ३ ) ।
 
श्रीप
 

 
<
आततायी>
अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते

ह्याततायिनः ॥ ( मिताक्षरा अ० २ श्लो० २१ ) ।
 
C
 

 
<
आत्मनेपदम्>
तङानावात्मनेपदम् ( पाणिनिसू० १।४।१०० ) । अ-

स्यार्थः । तङ्प्रयाहारः शानच्कानचौ चात्मनेपदसंज्ञाः स्युः । तङ्प्र-

त्याहारान्तर्गत प्रत्ययास्तु त आताम् झ थास् आथाम् ध्वम् इट् वहि महिङ्

इति । लटः शतृशानचावप्रथमासमानाधिकरणे ( पाणिनिसू० ३१२ ।

१२४ ) इति सूत्रेण लट: स्थाने विहितः शानच् । कानप्रत्ययस्तु

लिट: कानज्वा (पाणिनिसू० ३१२११०६) इत्यनेन वेदे लिट:

स्थाने विहितः । आत्मनेपदसंज्ञायाः प्रदेशस्तु अनुदात्तङित आत्मनेपदम्

(पाणिनिसू० ११३११२) इत्यादिः । क्रमेणोदाहरणानि । एधते

एघेते एधन्ते इत्यादीनि त प्रत्याहारस्य । पचमानं चैत्रं पश्येति

शानचः । चक्राणा वृष्णिमिति कानचः । विस्तरस्तु सिद्धान्त-

कौमुद्यादौ द्रष्टव्यः। अत्रेदं बोध्यम् । परस्मैपद आत्मनेपद एतदुभयपदि-
1.

धातूनां यत्र क्रियाफलं कर्तृनिष्ठं तत्रात्मनेपदम् । यत्र च कर्तृभिन्ननिष्ठं

तत्र परस्मैपदं साधु । तत्र सूत्रं प्रमाणम् स्वरितञितः कर्त्रभिप्राये

क्रियाफले ( पाणिनिसू० १३/७२ ) इति । तदर्थश्च कर्तारममिप्रैति