This page has not been fully proofread.

न्यायकोशः ।
 
१९९
 
आज्ञया नरपतेर्द्विजन्मनां दारकर्ममृतसूतके तथेत्यादौ इत्यपि कश्चिद्वक्ति ।
२ लग्नावविदशमभाव आज्ञेति ज्योतिःशास्त्रज्ञाः । ३ भ्रूमध्यस्थं सुषुम्ना -
नाड्यन्तर्गतमाज्ञाचक्रमिति तान्त्रिकाः ( वाच ० ) ।
 
-
 
आज्यत्वम् – यदाजिमीयुः तदाज्यानामाज्यत्वम् (जै० न्या० अ० १
पा० ४ अधि० ३ )।
 

 
आज्यस्तोत्रम् – अग्न आयाहि वीतये । आनो मित्रावरुण । आयाहि सुषुमा
हि ते । इन्द्रानी आगतं सुतम् । तान्येतानि प्रातः सवने गायत्रसाम्ना
गीयमानानि चत्वार्याज्यस्तोत्राणीत्युच्यन्ते ( जै० न्या० अ० १ पा० ४
अधि० ३ ) ।
 
श्रीप
 
आततायी – अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते
ह्याततायिनः ॥ ( मिताक्षरा अ० २ श्लो० २१ ) ।
 
C
 
आत्मनेपदम् – तङानावात्मनेपदम् ( पाणिनिसू० १।४।१०० ) । अ-
स्यार्थः । तङ्प्रयाहारः शानच्कानचौ चात्मनेपदसंज्ञाः स्युः । तङ्प्र-
त्याहारान्तर्गत प्रत्ययास्तु त आताम् झ थास् आथाम् ध्वम् इट् वहि महिङ्
इति । लटः शतृशानचावप्रथमासमानाधिकरणे ( पाणिनिसू० ३१२ ।
१२४ ) इति सूत्रेण लट: स्थाने विहितः शानच् । कानप्रत्ययस्तु
लिट: कानज्वा (पाणिनिसू० ३१२११०६) इत्यनेन वेदे लिट:
स्थाने विहितः । आत्मनेपदसंज्ञायाः प्रदेशस्तु अनुदात्तङित आत्मनेपदम्
(पाणिनिसू० ११३११२) इत्यादिः । क्रमेणोदाहरणानि । एधते
एघेते एधन्ते इत्यादीनि त प्रत्याहारस्य । पचमानं चैत्रं पश्येति
शानचः । चक्राणा वृष्णिमिति कानचः । विस्तरस्तु सिद्धान्त-
कौमुद्यादौ द्रष्टव्यः। अत्रेदं बोध्यम् । परस्मैपद आत्मनेपद एतदुभयपदि-
1. धातूनां यत्र क्रियाफलं कर्तृनिष्ठं तत्रात्मनेपदम् । यत्र च कर्तृभिन्ननिष्ठं
तत्र परस्मैपदं साधु । तत्र सूत्रं प्रमाणम् स्वरितञितः कर्त्रभिप्राये
• क्रियाफले ( पाणिनिसू० १३/७२ ) इति । तदर्थश्च कर्तारममिप्रैति