2023-10-20 06:02:04 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
चेति । वेदान्तिनोपि शब्दः श्रोत्रेन्द्रियं चापि छिद्राणि च विविक्तता ।

वियतो दर्शिता एते गुणा गुणविचारिभिः ॥ इत्याहुः (वाच०) । अत्रेदं

। बोध्यम् । प्रदेशवद्रव्यसंयोगात् अयमाकाशस्य प्रदेश: इति व्यवहारो

ॐ भवति इति ( त० व० पृ० १२८) । कारणद्रव्यं प्रदेशशब्देना-

भिधीयते (गौ० २/२/१८ ) । [ ख ] शब्दसमवायिकारणम् ।

[ग] शब्दगुणकम् । तच्चैकं विभु नित्यं च । तच्च लाघवादेकम् ।
1 day

सर्वत्र कार्योपलम्भाद्विभु । विभुत्वाच्च नित्यम् । तथापि कर्णशष्कुल्यव-

च्छिन्नं सत् शब्दग्राहकश्रोत्रेन्द्रियात्मकम् ( त० कौ० १ पृ० ३ )

( भा० प० श्लो० ४५-४६) (वै० सू० २१११२८-३० ) ।

अत्र विभुत्वं च परममहत्परिमाणयोगः ( वै० उ० ७ १ । २२ )

(मु० १ पृ० १७ ) । अथवा सर्वमूर्तद्रव्यसंयोगित्वम् । इदमेव सर्व-

गतत्वमित्युच्यते (मु० १ पृ० ५७ ) । आकाशे षड्गुणास्तिष्ठन्ति ।

संख्या परममहत्परिमाणम् एक पृथक्त्वम् संयोगः विभागः शब्दश्चेति

(वै० सू० २१११३१ ) ( भा० प० श्लो० ३३ ) ( त० भा०

पृ० ३० ) ( त० कौ० पृ० ३ ) ( त० सं० ) ।
 
M
 

 
-
 

 
<
आकुञ्चनम्>
( कर्म ) [ क ] शरीरसंनिकृष्टसंयोगहेतुः कर्म ( त० सं० )

२ ( त० कौ० पृ० २०) । लक्षणं च स्वसंनिकृष्टदेश संयोगजनक -

क्रियानुकूलक्रियात्वम् (ल० व० पृ० ३८ ) । वक्रतासंपादकं कर्मेत्यर्थः

( त० दी० पृ० ३९ ) । [ख] सत्यारम्भकसंयोगेप्यन्यसंयोग कार -

णम् । अङ्गकौटिल्यजनकं कर्माकुञ्चनमुच्यते ॥ (त० व० पृ० २४१ ) ।

[ग] ऋजुनो द्रव्यस्याग्रावयवानां तद्देशैर्विभागः संयोगश्च मूलप्रदेशैः

येन कर्मणा भवति अवयवी च कुटिल: संजायते तदाकुञ्चनम् (प्रशस्त
 

पृ० ५६ ) ।
 

 
<
आकृति:- >
[क] आकृतिर्जा तिलिङ्गाख्या ( गौ० २१२/६७ ) । तद-

र्थश्च जातिलिङ्गमित्याख्या यस्याः । जातेर्गोत्वादेर्हि सास्नादि संस्थान विशेषों

लिङ्गम् । तस्य च परंपरया द्रव्यवृत्तित्वम् ( गौ० वृ० २/२/६७) ।
 

यया जातिजतिलिङ्गानि च प्रख्यायन्ते तामाकृतिं विद्यात् । सा च