2023-10-20 05:43:55 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१०८
 
न्यायकोशः ।
 
पार्थिवं तमः कृष्णरूपवत्त्वात् इति । एवमाश्रयासिद्धिरप्युभयथा अन्यतरा-

सिद्धिरुभयासिद्धिश्च ( प्रशस्त ० २ पृ० २९ ) । असिद्धो हेतुश्च साध्य

सम इत्युच्यते ( वात्स्या० ११२१८ ) ( गौ० वृ० १२१२१८ ) ।
 

 
<
असिद्धिः>
(हेतुदोषः ) [ क] परामर्शप्रतिबन्धकज्ञानविषयो धर्मः

( त० कौ० २ पृ० १४ ) । अत्रेदं बोध्यम् । यत्र योसिद्धिस्तत्र तद्व्या-

प्योप्यसिद्धिरेवेति (बै० वि० ३ । १ । १५ ) । [ख ] व्यभिचाराधन्य

परामर्श प्रतिबन्धकतावच्छेदकधर्मवत्त्वम् ( न्या० म० २ पृ० २१) ।

[ग साधारण्यासाधारण्यानुपसंहारित्वभिन्नं ज्ञानस्य विषयतया परा-

मर्शविरोधितावच्छेदकं रूपमसिद्धिः (दीधि ० २ पृ० २१५-२१६) ।

सा चासिद्धिः आश्रयासिद्ध्याद्यन्यतमा ( मु० २ पृ० १६१ )

( गौ० दृ० ११२१८) (चि० २ पृ० १०२) । यथा काञ्चनमय-

हृदः काञ्चनमयवह्निमान्काञ्चनमयधूमादित्यादौ काञ्चनमयत्वाभाववज्र-

दादिः । आश्रयासिद्ध्याद्यन्यतमेत्यस्य आश्रयासिद्धिः स्वरूपासिद्धिः

व्याप्यत्वासिद्धिश्चैतासामन्यतमेत्यर्थः । अत्र परामर्शविषयाभावत्वेनानुग

तेन त्रयाणामसिद्धत्वेन संग्रहो महर्षिणा कृत इति न विभागविरोधः

हेत्वाभासाधिक्यं वा । अत एव ये व्याप्तिविरहपक्षधर्मताविरहरू पास्ते

असिद्धिभेदमध्यमध्यासते तदन्ये च यथायथं व्यभिचारादय इति

सिद्धान्तप्रवादोपि ( चि० २ पृ० १०२ ) । उदयनाचार्यास्तु पक्ष-

धर्मताज्ञानाभावः असिद्धिः । व्याप्तस्य पक्षधर्मतया प्रमितिः सिद्धिस्तदभाव:

असिद्धिरित्याहुः ( ग० बाघ ० ) । असिद्धित्रिविधा । आश्रयासिद्धिः

स्वरूपासिद्धिः व्याप्यत्वासिद्धिश्चेति ( चि० २ पृ० १०२) (गौ०

वृ० ११२१८) (वै० वि० ३।१।१५) ( न्या० म० २ पृ० २१) ।

प्रकारान्तरेण असिद्धिश्चतुर्विधा व्याप्तेः पक्षस्य हेतोश्च तज्ज्ञानस्याप्य
 

भावतः ( ता० र० श्लो० ८५ ) इति ।
 

 
<
असूया - >
[क] गुणिनि दोषाविष्करणम् । यथा शत्रवे असूयतीत्या दो

धात्वर्थः । अत्र विषयताविशेष एव चतुर्थ्यर्थः ( ग० व्यु० का० ४) ।
 
-