न्यायकोशः /162
This page has not been fully proofread.
१०८
न्यायकोशः ।
पार्थिवं तमः कृष्णरूपवत्त्वात् इति । एवमाश्रयासिद्धिरप्युभयथा अन्यतरा-
• सिद्धिरुभयासिद्धिश्च ( प्रशस्त ० २ पृ० २९ ) । असिद्धो हेतुश्च साध्य
सम इत्युच्यते ( वात्स्या० ११२१८ ) ( गौ० वृ० १२१२१८ ) ।
असिद्धिः—(हेतुदोषः ) [ क] परामर्शप्रतिबन्धकज्ञानविषयो धर्मः
( त० कौ० २ पृ० १४ ) । अत्रेदं बोध्यम् । यत्र योसिद्धिस्तत्र तद्व्या-
प्योप्यसिद्धिरेवेति (बै० वि० ३ । १ । १५ ) । [ख ] व्यभिचाराधन्य
परामर्श प्रतिबन्धकतावच्छेदकधर्मवत्त्वम् ( न्या० म० २ पृ० २१) ।
[ग साधारण्यासाधारण्यानुपसंहारित्वभिन्नं ज्ञानस्य विषयतया परा-
•मर्शविरोधितावच्छेदकं रूपमसिद्धिः (दीधि ० २ पृ० २१५-२१६) ।
सा चासिद्धिः आश्रयासिद्ध्याद्यन्यतमा ( मु० २ पृ० १६१ )
( गौ० दृ० ११२१८) (चि० २ पृ० १०२) । यथा काञ्चनमय-
हृदः काञ्चनमयवह्निमान्काञ्चनमयधूमादित्यादौ काञ्चनमयत्वाभाववज्र-
दादिः । आश्रयासिद्ध्याद्यन्यतमेत्यस्य आश्रयासिद्धिः स्वरूपासिद्धिः
व्याप्यत्वासिद्धिश्चैतासामन्यतमेत्यर्थः । अत्र परामर्शविषयाभावत्वेनानुग
तेन त्रयाणामसिद्धत्वेन संग्रहो महर्षिणा कृत इति न विभागविरोधः
हेत्वाभासाधिक्यं वा । अत एव ये व्याप्तिविरहपक्षधर्मताविरहरू पास्ते
असिद्धिभेदमध्यमध्यासते तदन्ये च यथायथं व्यभिचारादय इति
सिद्धान्तप्रवादोपि ( चि० २ पृ० १०२ ) । उदयनाचार्यास्तु पक्ष-
धर्मताज्ञानाभावः असिद्धिः । व्याप्तस्य पक्षधर्मतया प्रमितिः सिद्धिस्तदभाव:
• असिद्धिरित्याहुः ( ग० बाघ ० ) । असिद्धित्रिविधा । आश्रयासिद्धिः
स्वरूपासिद्धिः व्याप्यत्वासिद्धिश्चेति ( चि० २ पृ० १०२) (गौ०
वृ० ११२१८) (वै० वि० ३।१।१५) ( न्या० म० २ पृ० २१) ।
प्रकारान्तरेण असिद्धिश्चतुर्विधा व्याप्तेः पक्षस्य हेतोश्च तज्ज्ञानस्याप्य
भावतः ( ता० र० श्लो० ८५ ) इति ।
• असूया - [क] गुणिनि दोषाविष्करणम् । यथा शत्रवे असूयतीत्या दो
धात्वर्थः । अत्र विषयताविशेष एव चतुर्थ्यर्थः ( ग० व्यु० का० ४) ।
-