2023-10-20 05:42:33 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१०७
 
कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयो गृह्यन्ते । स्वार्थ -

बोधकत्वे सतीत्यत्र स्वार्थश्च स्वीयशक्तिग्रहे विशेष्य इति विवक्षणीयः ।

अत एव शरैः शातितपत्रः चैत्रस्य दासभार्येत्यादौ न समस्यमानस्य

शातितदासपदादेः सापेक्षता पदार्थैकदेशशातनदासत्वादावेव शर-

करणकत्वचैत्रनिरूपितत्वादीनामन्वयात् ( ग० व्यु० का० १ ) ।

ऋद्धस्य राजमातङ्ग इत्यादौ वृत्तिः राजमातङ्ग इति समासवृत्तिः ।

तदघटकं पदं ऋद्धस्येति पदम् । तदर्थान्वितः खार्थ: राजपदार्थः ।

तद्बोधकत्वे सति वृत्तिजन्यो बोधः राज्ञो मातङ्गः इति बोधः । तादृशबोधे

प्रकारताश्रयः विशेषणम् राजा । तद्बोधकत्वं राजपदेस्ति इति लक्षण-

समन्वयः । अत्र ऋद्धपदार्थस्य राजपदार्थेन्वयो न भवति । सामर्थ्या-

भावात् । तत्तदर्थविशेष्यकान्वयबोधं प्रति तत्तत्सामर्थ्यस्य प्रयोजकत्वात् ।

समर्थः पदविधि: ( पा० सू० २११११ ) इति सूत्रव्याख्यानावसरे

तथैवोक्तत्वादिति । एवं च ऋद्धस्य राजमातङ्ग इत्यत्र राजमातङ्ग इति

समासः असाधुरेव । राजपदस्य समासाघटकऋद्धपदसापेक्षत्वादिति ।

वृत्त्यघटकेत्यादिलक्षणे ऋद्धो राजमातङ्ग इत्यादौ मातङ्गपदस्य सापेक्षत्व-

वारणाय विशेष्यदलम् ।
 

 
<
असिद्धः>
( हेत्वाभासः ) [ क ] यत्र व्याप्तिः पक्षधर्मत्वं वा नास्ति सः

असिद्धः (वै० वि० ३११११५ ) । असिद्धत्वं च लिङ्गत्वेनानिश्चित-

त्वम् । [ ख ] व्याप्तिपक्षधर्मतान्यतररहितो हेतुः ( प्र० प्र० ) ।

यथा घटो द्रव्यं श्रावणत्वादित्यादौ श्रावणत्वादिर्हेतुरसिद्धः । असिद्ध-

स्त्रिविधः । आश्रयासिद्धः स्वरूपासिद्धः व्याप्यत्वासिद्धश्चेति ( त० सं० )

( त० कौ० २ पृ० १४ ) ( प्र० प्र० ) (भा०प० श्लो० ७६ ) ।

प्रकारान्तरेण असिद्धश्चतुर्विधः । उभयासिद्धः अन्यतरासिद्धः तद्भावासिद्धः

अनुमेयासिद्धश्चेति । तत्र उभयासिद्धः उभयोर्वादिप्रतिवादिनोरसिद्धः हेतुः ।

यथा नित्यः शब्दः सावयवत्वात् इति । अन्यतरासिद्धः वादिप्रतिवाद्य-

न्यतरस्यासिद्धो हेतुः । यथा कार्यत्वादनित्यः शब्द इति । तद्भावासिद्धः

खसद्भावासिद्धः । यथा धूमाभावेश्यनुमाने । अनुमेयासिद्धो यथा
 
R