2023-10-20 05:41:42 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१०६
 
न्यायकोशः ।
 

 
इण्डादीनां कार्यत्वातिरिक्तो यो धर्मः घटत्वादिः तदवच्छिन्ना या घटनिष्ठा

कार्यता तन्निरूपितकारणतावस्वादसाधारणकारणत्वमिति । [ ग ]

साधारणकारणभिन्नकारणत्वम् ( म० प्र० १ पृ० ५) ।

 
<
असाधारणत्वम्>
१ ( हेतुदोषः ) सर्वसपक्षव्यावृत्तत्वम् ( चि० २ सव्य ०

पृ० ८९) (मु० २ पृ० १५९ ) । अयं चासाधारणानै कान्ति कहेत्वाभास •

निष्ठो दोष इति विज्ञेयम् । यथा शब्दो नित्यः शब्दत्वादित्यादौ शब्दत्वस्य

असाधारणत्वम् (न्या० म० २ पृ० २०) । एतज्ज्ञानं चानुमितेः साक्षाप्र

तिबन्धकम् । नित्येष्वनित्येषु च कापि शब्दत्वस्य हेतोरदर्शनेन हेतुज्ञानेपि

शब्दे नित्यत्वसंशयस्यानिरासात् । २ असाधारणकारणत्ववदर्थो द्रष्टव्यः ।

 
<
असाधारणधर्मः>
लक्ष्यतावच्छेद कसमनियतो धर्मः । यथा गोर्लक्षणं हि

सास्नादिमत्त्वम् । स एवासाधारणधर्म इत्युच्यते ( त० दी० १ पृ० ४ ) ।
*

अत्र धर्मे असाधारणत्वं च तदितरावृत्तित्वे सति सकलतद्वृत्तित्वम् (त०

प्र० १ ) । अथवा लक्ष्यतावच्छेदकसमनियतत्वम् ( त० दी०

पृ० ४) । लक्ष्यतावच्छेदकव्यापकत्वे सति लक्ष्यतावच्छेद कव्याप्यत्वमित्यर्थः

( नील० १ पृ० ४) । भवति हि सास्त्रादिमत्त्वं लक्ष्यतावच्छेद की भूत-

गोत्वस्य व्यापकं व्याप्यं चेति । स चासाधारणधर्मो द्विविधः । व्यावर्तकः

अव्यावर्तकश्च । आद्यो गोः सास्नादिमत्त्वम् । द्वितीयः सप्तपदार्थानाम-

भिधेयत्वम् ( सि० च० १ पृ० ५) । अयमाशयः । सप्तपदार्थातिरिक्त

पदार्थाप्रसिद्ध्या तद्भेदासंभवेनाभिधेयत्वस्य व्यावर्तकत्वं न संभवतीति ।
 

 
<
असाधारण्यम् - >
असाधारणत्ववदस्यार्थोनुसंधेयः ।
 

 
<
असाधुत्वम्- >
महाजनपरिगृहीत व्याकरणस्मृति निषिद्धत्वम् ( चि० ४) ।

यथा अचीक्रमतेत्यादिप्रयोगस्य स्वर्णस्तेयादेश्च यथाक्रममसाधुत्वम् ।
 
<
असामर्थ्यम् - >
वृत्त्यघटकपदार्थान्वितस्वार्थबोधकत्वे सति वृत्तिजन्यबोधीय
यथा अचीक्रमतेत्यादिप्रयोगस्य स्वर्णस्तेयादेश्च यथाक्रममसाधुत्वम् ।
-
प्रकारताश्रयस्वार्थबोधकत्वम् । यथा ऋद्धस्य राजमातङ्ग इत्यादौ ऋद्ध-

पदार्थस्य राजपदार्थेनान्वये विवक्षिते राजपदस्यासामर्थ्यम् ( ग०
व्यु०
साधुत्वे प्रयोजकं च भवतीति बोध्यम् । वृत्तिशब्देनात्र वैयाकरणसंमताः

का० १ ) । इदमसामध्येमेव सापेक्षत्वम् अपेक्षा वेत्युच्यते समासाद्य-
To व्यु०
 
.