2023-10-20 05:29:20 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१०३
 
गुणत्वं तु न प्रकृतसाध्यसाधने प्रयोजकम् । विशेषण मात्रस्यैव अका-

रणत्वस्य नित्यत्वसाधने समर्थत्वात् ( त० भा० पृ० ४६-४७ ) ।
 

 
<
असमवायिकारणम्>
( कारणम् ) [ क ] समवायिकारणे प्रत्यासन्नं

कारणम् (प्र० प्र०) (भा०प० श्लो० १८) (त० कौ० १ पृ० ८) ।

कार्यैकार्थ–कारणैकार्थ–एतदन्यतरप्रत्यासत्या समवायिकारणे प्रत्यासन्नं

ज्ञानादिभिन्नं यत् कारणं तदसमवायिकारणम् इति पर्यवसितोर्थः

( मु० १ पृ० ५१ ) । कार्यैकार्थप्रत्यासत्तिरत्र समवायसंबन्धेन कार्य-

सामानाधिकरण्यम् ।कारणैकार्थप्रत्यासत्तिश्चात्र स्वसमवायिसमवाय-

संबन्धेन कार्यसामानाधिकरण्यम् ( सि० च० १ पृ० २१ ) ।
Pe

अत्रायं सिद्धान्तः । आत्मविशेषगुणानां ज्ञानादीनां कुत्राप्यसमवायिका-

रणत्वं नास्ति इति ( दि० १ पृ० ५१ ) ( मु० १ पृ० ५०/५१ )

( राम० १ पृ० ५० ) । तेन असमवायिकारणत्वनिरासाय ज्ञानादीनां

पर्युदासः । असमवायिकारणं च कार्यस्थितौ नियामकं भवतीति

बोध्यम् । [ख ] कार्येण कारणेन वा सहकस्मिन्नर्थे समवेतत्वे सति

कारणं यत्तत् । यथा तन्तुसंयोगः पटस्यासमवायिकारणम् । तन्तुरूपं

पटगतरूपस्यासमवायिकारणम् ( त ० सं० ) । अत्र तन्तुसंयोगस्य
.

पटसमवायिकारणेषु तन्तुषु प्रत्यासन्नत्वात् कारणत्वाच्च तन्तुसंयोगः पट-

स्यासमवायिकारणमिति ज्ञेयम् । तथा तन्तुरूपस्य परंपरया पटादौ प्रत्या

सन्नत्वात् ( तन्तुरूपस्य पटरूपादिसमवायिकारणे पढे स्वाश्रयसमवेतत्वेन

प्रत्यासन्नत्वात् ) कारणत्वाच्च लक्षणसमन्वयो बोध्यः ( त० कौ० १ पृ०

८ ) । अत्रेदं बोध्यम् । असमवायिकारणता च गुणकर्ममात्रवृत्तिर्भवति

(भा०प०श्लो०२३) इति । गुणकमोतिरिक्त न वर्तत इत्येव तत्तात्पर्य न तु

यावगुणवृत्तिरिति । तेन ज्ञानादीनामसमवायिकारणत्वविरहेपि नोक्तिवि-

रोधः । एवं चासमवायिकारणता द्विविधा । कार्यैकार्थसमवायात् कारणै-

कार्यसमवायात् । तत्र प्रथमा यथा आत्ममनः संयोगस्य ज्ञानादिकं प्रति
 
J
 

कारणता । तन्तुसंयोगस्य च पटं प्रति । तत्र कार्येण पटेन सह कारणस्य