2023-10-20 05:19:31 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
व्यवहा-
<असंसर्गाग्रहः->
[क] बाधग्रहः प्रतिबन्धकग्रहो वा असंसर्गः । तस्याभावः ।

यथा प्राभाकरमते कार्यतावाचकलिङादिपदासमभिव्याहारस्थले
व्यवहा-
रस्त्वसंसर्गाग्रहादेवेल्यत्र ( म० प्र० ४) । [ख] भेदाज्ञानम् । यथा सांख्य-

मते बुद्धिपुरुषयोरसंसर्गाग्रहात्कर्तृत्वाद्यभिमान इत्यत्र ( दि० १ आत्म०पृ०

१०५ ) । केचित्तु असंसर्गस्य परस्परसंबन्धाभावस्याग्रहः अबोधः । यथा

मीमांसकमते इदं रजतमित्यादौ इदम् इति रजतम् इति च ज्ञानद्वयस्यापि

प्रवृत्तिजनकताप्रयोजकत्वेन परस्परसंबन्धाभावस्याबोध इत्याहु: (वाच०) ।
असत् –

 
<असत्>
१ सत्तावद्भिन्नम् । यथा प्राचीननैयायिकमते सामान्यादिचतुष्टयम

सत् । २ तत्कालीन स्वजनका भावप्रतियोगि । यथा घटपटादिकार्य

स्वस्वोत्पत्तेः प्रागसत् ( वै० उ० ९ । १ । १ ) । ३ यत् कालसामान्या-

संबन्धि तत् । यथा शशशुङ्ग कूर्मरोमादि इति मध्वाचार्यानुयायिनो वेदा-

•न्तिनः । ४ नामरूपाभ्यामव्याकृतं कारणात्मना स्थितं सूक्ष्मरूपमन्य

क्तमिति मायावादिनः । ५ अर्थक्रिया[^१]कारि । अकिंचित्करम् अभा

वादिकमिति बौद्धा आहुः ( वाच० ) ।
 
अस

 
[^१] अकारीति प
च्छेदः ।
 
<असद
र्थविषयकत्वम्>
विशेष्यावृत्तिप्रकारकत्वम् । यथा शुक्तौ इदं रजतम

इति ज्ञानस्य विशेष्यभूतशुक्तौ रजतत्वस्यावृत्तित्वेन असदर्थविषयकत्वम् ।
 

 
<
असद्धेतुः- >
( हेतुः ) हेत्वाभासवदस्यार्थोनुसंधेयः ।
 

 
<
असमर्थविशेषण:- >
( स्वरूपासिद्धः ) यद्धेतुघटकं यत् विशेषणं साय-

साधने अप्रयोजकं भवति तद्विशेषणविशिष्टः स हेतुः । यथा शब्दो नित्यो
-

विशेषणं गुणत्वं तु न साध्यसाधने प्रयोजकं भवति । विशेष्याकारणत्व-

गुणत्वे सत्यकारणत्वादिति । अत्र च गुणत्व विशिष्टमकारणत्वं हेतुः । तत्र

स्यैव नित्यत्वसाधनसामर्थ्यात् ( त० भा० पृ० ४६ ) ।
 
..

 
<
असमर्थविशेष्यः - >
(स्वरूपासिद्धः) यद्धेतुघटकं यत् विशेष्यं साध्यसाधने

अप्रयोजकं भवति तद्विशेष्यघटितः स हेतुः । यथा शब्दो नित्यः अकारणले

सति गुणत्वादिति । अत्र चाकारणत्वविशिष्टं गुणत्वं हेतुः । तत्र विशेष्यं
 
१ अकारीति पदच्छेदः ।
 
१०२
 
-