This page has not been fully proofread.

न्यायकोशः ।
 
१०१
 
! यस्मिन् किंचिदपि वस्तु समवायेन संबन्धेन न वर्तते यश्च कस्मिंश्चिदपि
वस्तुनि समवायेन संबन्धेन न वर्तते तत्रायमसंबन्धः । यथा समवाये
अभावे च न किंचिद्वस्तु समवायेन वर्तते सोपि समवायः अभावश्च
न कस्मिंश्चिदपि वस्तुनि समवायेन संबन्धेन वर्तत इति समवाये अभावे
चायमसंबन्धोस्ति । स च असंबन्धः समवायत्वस्य अभावत्वस्य च
जातित्वे बाधक इति न्यायसिद्धान्तः । २ परस्परावच्छेद्यावच्छेदकभावा-
पन्नविषयितानिरूपकत्वशून्यत्वम् (ग० अव० ) । अयं चैकवाक्यत्व-
विघटको गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात् इति जैमिनिसूत्र-
घटकासंबन्धपदस्यार्थ इति विज्ञेयम् । यथा सुन्दरः पुरुषो दण्डीत
वाक्यजन्यशाब्दबोधे पुरुषांशे दण्डसौन्दर्ययोर्विशेषणतया युगपद्भानस्वी
कारे तयोः परस्परमसंबन्धः । वस्तुतस्त्वेतादृशवाक्यस्वरसात्सौन्दर्यस्य
• विशेष्यतावच्छेदकत्वेन दण्डस्य विशेषणत्वेन भानाङ्गीकारे नायमसंबन्ध-
दोषः । अपि तु पुरुषः सुन्दरो दण्डीत्य।दावेव तादृशदोष इति ज्ञेयम् ।
असंभवः– ( लक्षणदोषः ) १ [ क ] लक्ष्यमात्रावृत्तित्वम् । यथा गोरे-
कशफत्वरूपलक्षणस्यासंभवः ( त० दी ० १ पृ० ४ ) । संबन्धविशेषा
ॐ वच्छिन्नलक्ष्यवृत्तित्वसामान्याभाव इत्यर्थः (नील० १ पृ० ४) । [ख]
लक्ष्यतावच्छेदकव्यापकीभूतो यः अभावस्तत्प्रतियोगित्वम् ( न्या०
१ पृ० ३ ) । यत्र यत्र लक्ष्यतावच्छेदकं गोत्वम् तत्र तत्रैक-
शफत्वस्याभाव इति व्याप्तेरेकशफव्वाभावो लक्ष्यतावच्छेदकस्य व्यापको
भवतीति तत्प्रतियोगित्वमेकशफत्वे वर्तत इति बोध्यम् । [ग]
कापि लक्षणस्यावर्तनम् । यथा झुण्डदण्डवान् ब्राह्मण इति लक्ष-
णस्यासंभवः । कस्यापि ब्राह्मणस्य शुण्डदण्डाभावादसंभव इति भावः
(त० कौ० पृ० २१) । २ स्वरूपासिद्धिः । यथा गोरेकशफत्वस्य लक्षणत्वे
स्वरूपासिद्ध्यात्मको हेत्वाभासः ( त० भा० पृ० ५० ) । इदं च लक्ष-
•णस्य व्यावर्तकत्वाभिप्रायेणेति विज्ञेयम् (नील० १ पृ० ४ ) । तथाहि ।
-गौरितरेभ्यो मिद्यत एकशफत्वा दित्यत्रैकशफत्वात्मकहेतोः स्वरूपासिद्धिः ।
..एतत्प्रपञ्चस्तु लक्षणशब्दव्याख्यानावसरे संपादयिष्यते ।
 
बो०
 
a
लक्ष्ये