This page has not been fully proofread.

न्यायकोश: ।
 
स्वयमूह्यम् । अत्रायमाशयः । अग्रे वृक्षः कपिसंयोगी न मूले इति प्रती-
त्यैकस्मिन्नप्यधिकरणे वृक्षे कपिसंयोगकपिसंयोगाभावयोरग्रमूलात्मकप्र-
देशविशेषावच्छेदेन विद्यमानत्वात्तयोरव्याप्यवृत्तित्वं संगच्छत इति ।
अशिष्टः— यो यदा वेदनिषिद्धकर्ता स तदा अशिष्टः । यथा बौद्धपाषण्डा -
दिरशिष्ट: ( चि० १ पृ० १०८-१०९) ।
 
अश्रुमुखाः - पिता पितामहश्चैव तथैव प्रपितामहः । त्रयो ह्यश्रुमुखा
ह्येते पितरः संप्रकीर्तिताः ॥ तेभ्यः पूर्वे त्रयो ये तु ते तु नान्दीमुखाः
स्मृताः ( पु० चि० पृ० २९९ ) ।
 
अस्– ( धातुः ) [ क ] कालसंबन्धविशेषः । यथा चैत्रोस्तीत्यादौ धा-
त्वर्थः । [ख] शाब्दिकास्तु स्वधारणानुकूलो व्यापारः अस्धात्वर्थ
• इत्याहु: (वै० सा० धा० पृ० ९० ) । यदाह वाक्यपदीये-आत्मान-
• मात्मना बिभ्रदस्तीति व्यपदिश्यते । अन्तर्भावाच्च तेनासौ कर्मणा न सक-
र्मकः ॥ इति । अत्रायमाशयः । आत्मा द्विविधः । शरीरात्मा अन्तरात्मा चेति ।
शरीरात्मा शरीरावच्छिन्नात्मा । अन्तरात्मा अन्तःकरणावच्छिन्नात्मा । त
न्तरात्मना शरीरात्मनो धारणं भवति । तत्र धारणानुकूलव्यापारस्य
त्रान्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखदुःखे अनुभवतीति हेतोः अ
धात्वर्थवेपि फलव्यापारयोः सामानाधिकरण्येन अकर्मकत्वमुपपद्यत इति ।
असंगतिः - १ संगत्यभावः ( संदर्भाभावः ) । २ वेदान्तिनस्तु आका-
ङ्क्षाविरहः ( हेत्वाभासः ) इत्याहु: ( प्र० च० पृ० ३० ) ।
 
असंप्रज्ञातः- १ यथार्थज्ञानाविषयः । २ ज्ञेयज्ञानज्ञातृमेदशून्यो निर्विक
ल्पकरूपः समाधिरिति योगशास्त्रविद आहुः ( वाच० ) । सर्ववृत्तिनि
 
रोघे त्वसंप्रज्ञातः ( सर्व० सं० पृ० ३५७ पातञ्ज० ) ।
 
असंबन्धः --१ असमवेतत्वम् । यथा समवाये अभावे चासंबन्धः (नील०
१ पृ० ६ ) । असमवेतत्वं च प्रतियोगित्व-अनुयोगित्व - एतदन्य
तरसंबन्धेन समवायाभावः ( नील ० १ पृ० ६) ( दि० १ ५०
 
३६) ।
 
• अथवा प्रतियोगित्व - अनुयोगित्व - एतदन्यतरसंबन्धावच्छिन्नावच्छेदका
निरूपित प्रतियोगिताकमेद इति ( ल० व० पू० ३) । अयमाशयः ।