2023-10-20 05:11:38 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
९९
 
यथा गोः
अव्याप्तिः
 

 

 
कपिलवे वर्त इति द्रष्टव्यम् । [ख] लक्ष्यैकदेशावृत्तित्वम् ।

यथा गोः
कपिलत्वस्य लक्षणत्वाङ्गीकारे शुक्लगवि कपिलत्वस्याभावेन

अव्याप्तिः
( त० दी० १ पृ० ४ ) । लक्षणतावच्छेदकत्वाभिमतसंब-

न्धेन किंचिलक्ष्यावृत्तित्वमित्यर्थः ( नील० १ पृ० ४ ) [ग]

लक्ष्यैकदेशे लक्षणस्यावर्तनम् । यथा शिखासूत्रवान् ब्राह्मणः इत्यस्य

लक्षणस्य संन्यासिन्यव्याप्तिः । संन्यासिनः शिखासूत्रवत्त्वाभावादिति

भावः ( त० कौ० पृ० २१) । २ भागासिद्धत्वम् । यथा गोर्लक्षणस्य

शबलत्वस्य भागासिद्धिः (त० मा० पृ० ५०) (नील० १ पृ० ४ ) । इदं

च लक्षणस्य व्यावर्तकत्वाभिप्रायेण । विस्तरस्तु लक्षणशब्दव्याख्यानावसरे

संपादयिष्यते । ३ हेत्वाभासविशेषः । हेत्वाभास शब्दव्याख्याने दृश्यम् ।

 
<
अव्याप्यवृत्तिगुणत्वम् - >
अव्याप्यवृत्तिवृत्तिर्गुणत्वव्याप्या च या जातिस्ता-

दृशजातिमत्त्वम् ( दि० गु० पृ० १९४ ) । तादृशी जातिस्तु बुद्धित्व-

शब्दत्वादिः । अव्याप्यवृत्तिगुणा द्विविधाः दैशिकाव्याप्यवृत्तयः कालि-

काव्याप्यवृत्तयश्चेति । तत्र दैशिकाव्याप्यवृत्तयो बुद्ध्यादयोष्टौ शब्दः

भावना संयोगः विभागश्चेति । एते गुणाः प्रादेशिकगुणा इत्यपि व्यव-

ह्रियन्त इति बोध्यम् । कालिकाव्याप्यवृत्तिगुणास्तु रूपादयः इति विज्ञेयम्।
 

 
<
अव्याप्यवृत्तित्वम्->
स्खात्यन्ताभावसमानाधिकरणत्वम् ( त० दी० १

पृ० १३ ) ( मू० म० ) ( ग० ) । यथा वृक्षे कपिसंयोगतदत्यन्ताभा-

वयोरव्याप्यवृत्तित्वम् । यथा वा संयोगेन द्रव्यस्याव्याप्यवृत्तित्वमते पर्वते

वहितदभावयोरव्याप्यवृत्तित्वम् । स्वात्यन्ताभाव समानाधिकरणत्वमित्यस्य

स्वस्यात्यन्ताभावेन सहकाधिकरणे वर्तमानत्वमित्यर्थः । स्वप्रतियोगित्व-

स्वसामानाधिकरण्य- एतदुभयसंबन्धेनाभाववत्त्वमिति निष्कर्षः (नील० १

पृ० १३ ) । तदर्थश्च स्वशब्देन कपिसंयोगाभावो गृह्यते । स्वस्य प्रति-

योगी कपिसंयोगस्तत्त्वं कपिसंयोगे वर्तते । तथा स्वसामानाधिकरण्यमपि

वर्तते । स्वस्य कपिसंयोगाभावस्य सामानाधिकरण्यमेकाधिकरणे वर्तमान-

त्वम् । तथा चैतादृशोभयसंबन्धेन कपिसंयोगाभाववत्वं कपिसंयोगे वर्तत

इति कपिसंयोगः अव्याप्यवृत्तिर्भवति । एवं कपिसंयोगाभावेप्यव्याप्यवृत्तित्वं