This page has not been fully proofread.

न्यायकोशः ।
 
अव्यवहितोत्तरत्वम् – स्वाधिकरणक्षणध्वंसाधिकरणक्षणध्वंसाधिकरणत्व-
सामान्याभाववत्त्वे सति स्वाधिकरणक्षणध्वंसाधिकरणत्वम् । यथा विशिष्ट-
ज्ञानस्य विशेषणज्ञानाव्यवहितोत्तरत्वम् । यथा वा अनुमितेः परामर्शाव्य-
वहितोत्तरत्वम् । अत्र सत्यन्तेन दलेन अव्यवधानम् विशेष्यदलेन
तूत्तरत्वं गम्यते इति ज्ञेयम् । इदं विशिष्टलक्षणं च ज्ञानाद्युत्पत्तिद्विती-
यक्षणसाधारणम् ( ग० पक्ष० पृ० ४२ ) । तृतीयक्षणसाधारणं तु
ज्ञानादेस्तृतीयक्षणे विनाशेन स्वध्वंसाधिकरणक्षणध्वंसानधिकरणत्वे सति
स्वाधिकरणक्षणध्वंसाधिकरणत्वरूपं ज्ञानाद्यव्यवहितोत्तरत्वम् ( दीधि ०
२ पृ० १२७ ) ।
 
अव्यापकविषयिताशून्यत्वम् – यद्रपावच्छिन्ननिरूपित विषयितात्वं विशि-
ष्ट विषयकत्वसमानाधिकरणाभावप्रतियोगितावच्छेदकं तद्रूपावच्छिन्ननिरू-
पितविषयिताशून्यत्वम् । यथा हृदो वह्निमानित्यादौ वयभाववद्धदरूप -
बाधविषयकस्य हृदो न वह्निमान् इति निश्चयस्य अव्यापकीभूतजातित्व-
द्यवच्छिन्ननिरूपितविषयिताशून्यत्वम् ( ग० सामा० २ लक्षणे ) ।
 
९८
 
स्वभिन्नत्व–स्वनिरूपितसंसर्गतान्यविषयतानिरूपितत्व-एतदु
 
यद्रूपावच्छिन्नविषयता विशिष्टयद्रपावच्छिन्नविषयतानिरूपित विषयितात्वं ता
दृशविशिष्टविषयकत्वसमानाधिकरणाभाव प्रतियोगितावच्छेदकं तद्रूपाव-
च्छिन्नविषयताविशिष्टतद्रूपावच्छिन्नविषयतानिरूपितविषयिताशून्यत्वं-
कृष्टार्थ इत्यस्मद्गुरुचरणाः प्राहुः । अधिकं तु क्रोडपत्रादितो ज्ञेयम् ।
 
अव्याप्तिः - ( लक्षणदोषः ) १ [क] लक्ष्यतावच्छेदकसमानाधिकरणा
त्यन्ताभावप्रतियोगित्वम् ( न्या० बो० १ पृ० ३ ) । अत्र गोः कपि-
• लत्वं लक्षणमित्युक्तौ गौर्लक्ष्या भवति । लक्ष्यतावच्छेदकं गोत्वम् / त
समानाधिकरणः गोत्वस्याधिकरणे शुक्लगवि वर्तमानः कपिलत्वस्या
त्यन्ताभावः । तस्य प्रतियोगि कपिलत्वं भवति । तथा च प्रतियोगित्वं
पयुज्यते । उपयोगस्तु हृदो वह्निमान् धूमादित्यादौ जातित्वेन हृदत्वायवगाहिनो
१ इदं च निश्चयस्य विशेषणं गदाधर्या हेत्वाभाससामान्यनिरुक्तौ द्वितीयलक्षणे
 
जातिमान् वह्नयभाववान् इति निश्चयस्य प्रतिबन्धकत्ववारणरूप इति बोध्यम् ।