2023-10-20 05:05:49 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

-
 
<अव्ययीभावः>
(समासः)
पूर्वपदार्थप्रधानोव्ययीभाव
 
न्यायकोशः ।
 
९७
 
अव्ययीभावाधिकार पठितत्वमव्ययीभावत्वम् ।

पूर्वपदार्थप्रधानोव्ययीभाव
इति लक्षणं तु प्रायिकं बोध्यम् । तथा हि
 
17
 

उन्मत्तगङ्गमित्यव्ययीभावे पूर्वपदार्थप्राधान्याभावादव्याप्तिः । सूपप्रतीत्य-

व्ययीभाव उत्तरपदार्थप्राधान्यादव्याप्तिश्च । अतो नेदं सिद्धान्तभूतं

लक्षणमिति ( वैयाकरणभू० ) ( श० पृ० ३१ ) । अर्धपिप्पलीत्यादौ

तत्पुरुषे पूर्वपदार्थप्राधान्यादतिव्याप्तिरप्यस्मिन् लक्षणे बोध्या । अनव्य-

यमव्ययं भवतीत्यव्ययीभावः । अव्ययीभावस्याव्ययत्वम् अव्ययीभावश्च

( पाणि० सू० ११ १२ १४१) इति सूत्रेण बोध्यते ।
 
ऋगर
 
PIPPIES
 

 
<
अव्यवधानम् - >
तदधिकरणक्षणध्वंसाधिकरणक्षणोत्पत्तिकत्वम् । यथा क्रमि-

कपदार्थोपस्थितीनामव्यवधानम्। अथ वा तङ्कंसाधिकरणक्षणोत्पत्तिकत्वम्।

अव्यवहितत्वम् – तत्पूर्वकालीन ध्वंसाप्रतियोगित्वम् (ग० २ प

पृ० ३८ ) । यथा अनुमित्यव्यवहित पूर्ववृत्तिसिद्धिभिन्नसिद्ध्यभावः पक्षता

( दीधि० ) इत्यत्रानुमित्यव्यवहितपूर्वक्षणे सिद्धावेव वा विशेषणीभूत-

मव्यवहितत्वम् । करी

 
<
अव्यवहितपूर्वत्वम्->
[क] तदुत्पत्तिक्षणोत्पत्तिकध्वंसप्रतियोगित्वम् (
दिधि०
पक्ष० पृ० १२९) । अत्र तत्पदेन क्षणद्वयावस्थायि ज्ञानादिक

ग्राह्यम् । विग्रहस्तु तस्य ज्ञानादे: उत्पत्तिक्षणे उत्पत्तिर्यस्य स

तदुत्पत्तिक्षणोत्पत्तिकः । सचासौ ध्वंसश्च । तस्य प्रतियोगि । तस्य भावः

इति । ज्ञानाद्युत्पत्तिक्षणे यस्य ध्वंस उत्पद्यते तत्त्वमिति विग्रहार्थः । इदं

लक्षणं प्रागभावानभ्युपगन्तृनयेपि संगच्छते इति विज्ञेयम् ( ग० पक्ष०
 

 
Dham
 

पृ० ४४ ) । [ख तत्प्रागभावाधिकरणकालप्रागभावानधिकरण

सति तत्प्रागभाववत्वम् ( ग० पक्ष० पृ० ४१) । अत्र सत्यन्तदलेन

अव्यवधानम् विशेष्यदलेन तु पूर्वत्वं बोध्यत इति विज्ञेयम् । इदमव्यव-

हितपूर्वत्वं च प्रागभावाङ्गीकर्तृपक्ष एव संगच्छत इत्यवधेयम् । यथा

विशेषणज्ञानस्य विशिष्टज्ञानाव्यवहितपूर्वत्वम् । यथा वा परामर्शस्यानु

मित्यव्यवहितपूर्वत्वम् ।
 
7
 
१३ न्या० को०
 
2