This page has not been fully proofread.

-
 
अव्ययीभावः – (समासः)
पूर्वपदार्थप्रधानोव्ययीभाव
 
न्यायकोशः ।
 
९७
 
अव्ययीभावाधिकार पठितत्वमव्ययीभावत्वम् ।
इति लक्षणं तु प्रायिकं बोध्यम् । तथा हि
 
17
 
उन्मत्तगङ्गमित्यव्ययीभावे पूर्वपदार्थप्राधान्याभावादव्याप्तिः । सूपप्रतीत्य-
व्ययीभाव उत्तरपदार्थप्राधान्यादव्याप्तिश्च । अतो नेदं सिद्धान्तभूतं
लक्षणमिति ( वैयाकरणभू० ) ( श० पृ० ३१ ) । अर्धपिप्पलीत्यादौ
तत्पुरुषे पूर्वपदार्थप्राधान्यादतिव्याप्तिरप्यस्मिन् लक्षणे बोध्या । अनव्य-
यमव्ययं भवतीत्यव्ययीभावः । अव्ययीभावस्याव्ययत्वम् अव्ययीभावश्च
( पाणि० सू० ११ १२ १४१) इति सूत्रेण बोध्यते ।
 
ऋगर
 
PIPPIES
 
अव्यवधानम् - तदधिकरणक्षणध्वंसाधिकरणक्षणोत्पत्तिकत्वम् । यथा क्रमि-
कपदार्थोपस्थितीनामव्यवधानम्। अथ वा तङ्कंसाधिकरणक्षणोत्पत्तिकत्वम्।
अव्यवहितत्वम् – तत्पूर्वकालीन ध्वंसाप्रतियोगित्वम् (ग० २ प●
पृ० ३८ ) । यथा अनुमित्यव्यवहित पूर्ववृत्तिसिद्धिभिन्नसिद्ध्यभावः पक्षता
( दीधि० ) इत्यत्रानुमित्यव्यवहितपूर्वक्षणे सिद्धावेव वा विशेषणीभूत-
मव्यवहितत्वम् । करी
अव्यवहितपूर्वत्वम्-[क] तदुत्पत्तिक्षणोत्पत्तिकध्वंसप्रतियोगित्वम् (०
पक्ष० पृ० १२९) । अत्र तत्पदेन क्षणद्वयावस्थायि ज्ञानादिक
ग्राह्यम् । विग्रहस्तु तस्य ज्ञानादे: उत्पत्तिक्षणे उत्पत्तिर्यस्य स
तदुत्पत्तिक्षणोत्पत्तिकः । सचासौ ध्वंसश्च । तस्य प्रतियोगि । तस्य भावः
इति । ज्ञानाद्युत्पत्तिक्षणे यस्य ध्वंस उत्पद्यते तत्त्वमिति विग्रहार्थः । इदं
लक्षणं प्रागभावानभ्युपगन्तृनयेपि संगच्छते इति विज्ञेयम् ( ग० पक्ष०
 

 
Dham
 
पृ० ४४ ) । [ख तत्प्रागभावाधिकरणकालप्रागभावानधिकरण
सति तत्प्रागभाववत्वम् ( ग० पक्ष० पृ० ४१) । अत्र सत्यन्तदलेन
अव्यवधानम् विशेष्यदलेन तु पूर्वत्वं बोध्यत इति विज्ञेयम् । इदमव्यव-
हितपूर्वत्वं च प्रागभावाङ्गीकर्तृपक्ष एव संगच्छत इत्यवधेयम् । यथा
• विशेषणज्ञानस्य विशिष्टज्ञानाव्यवहितपूर्वत्वम् । यथा वा परामर्शस्यानु
मित्यव्यवहितपूर्वत्वम् ।
 
7
 
१३ न्या० को०
 
2