This page has not been fully proofread.

न्यायकौशः ।
 
वैश्वदेवं चरुं पिशङ्गी पष्ठाही दक्षिणा । मैत्रावरुणीमामिक्षां वशा दक्षिणा ।
बार्हस्पत्यं चरुं शितिपृष्ठो दक्षिणा ( जै० सू० वृ० २।३।३ ) ।
 

 
अव्यभिचारः – साध्याभाववद्वृत्तित्वं व्यभिचारः । तस्याभावः ।
 
-
 
अव्ययम् - [क] संकेतसंबन्धेनाव्ययपदवत् । यथा स्वः इत्याद्यव्ययम् । तत्र
कानिचिदव्ययानि सार्थमुदाह्रियन्ते । लक्षणवीप्सेत्थंभावेष्वभिर्भागे परिप्र-
ती । अनुरेषु सहार्थे च होने उपश्च कथ्यते । समया निकषा चाव्ययं सामी-
प्यार्थकम् । तेन तद्योगे समया ग्राममित्यादौ ग्रामस्य समीपम् इत्यन्वये प्रामा-
वघिकत्वं तत्प्रतियोगिकत्वं वा द्वितीयया बोध्यते । विद्यामृते अन्तरेणान्तरा
विना बा नरः शोच्य इत्यादावृतेप्रभृत्यव्ययानामत्यन्ताभावस्तद्वैशिष्ट्यं वार्थ
इति विद्यात्यन्ताभाववान् नरः शोच्य इत्यन्वये अत्यन्ताभावेन्वितं प्रति-
योगित्वम् । गगनमृते द्रव्यं न शब्दवदित्यादौ तूक्ताव्ययानां भेदोप्यर्थः ।
तेन गगनभिन्नद्रव्यं न शब्दवत् इत्याकारकस्तत्र बोधः । हा पुत्रमित्यत्र
"हाव्ययस्या कष्टे द्वितीयान्तेन पुत्रसमवेतत्वं बोध्यते । धिक् पुत्रमित्य
धिगर्थगर्हायां पुत्रविषयित्वम् । उपर्युपरि गृहं पताकेत्यत्र द्विरुक्तस्योपरि-
निपातस्य संनिकृष्टोर्ध्वभागार्थकत्वेन गृहस्य संनिकृष्टोर्ध्वभागे पताका
इत्यर्थः । अधोधो मेघमम्भः अध्यघि शिखरं घन इत्यत्राप्युक्तदिशैवा-
न्वयः । द्विरुपर्यधोधीनां सामीप्यवाचितायां तद्योगे द्वितीयानुशिष्टेः
( श० प्र० पृ० ११७ ) । अत्र प्रमाणम् – उभसर्वतसोः कार्या धिगु-
पर्यादिषु त्रिषु । द्वितीयाम्रेडितान्तेषु ततोन्यत्रापि दृश्यते ॥ इति । नदीं
यावन्मम पुरम् गृहं यावद्धनं तवेत्यत्र यावदित्यव्ययस्य मर्यादा अभिविधिश्च
क्रमेणार्थः । तेन नदीपर्यन्तं मत्पुरम् गृहाभिव्याप्तं त्वद्धनम् इत्याकारस्तत्र
बोध: ( श० प्र० पृ० ११६ - ११७ ) इत्यादि तत्तग्रन्थाज्ज्ञेयम्
विस्तरभयान्नोच्यत इति । [ख ] सदृशं त्रिषु लिङ्गेषु सर्वासु च विभ
क्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ इति शाब्दिका आहुः ।
अत्रायं नियमः - नियताः प्रयोगा हि केषांचिदव्ययानामिति ( न्या० म०
ख० ४ पृ० १४ ) । अत्राधिकं तु नशब्दव्याख्यानावसरे द्रष्टव्यम् ।