This page has not been fully proofread.

न्यायकोशः ।
 
९५
 
मात्रम् । यथा मानान्तरविरोधे तु मुख्यार्थस्यापरिग्रहे । अभिधेयावि-
नाभूतप्रतीतिर्लक्षणोच्यते ॥ ( भट्टवार्तिके ) इत्यादौ अविनाभावशब्दार्थः
( काव्यप्र० उ० २ पृ० २० ) । २ मीमांसकमते तु स्वदेशवृत्तित्वं
तादात्म्यं च अविनाभावः । यथा व्यक्त्यविनाभावात्तु जात्या व्यक्तिरा-
क्षिप्ते ( काव्यप्र० २ १० १७) इत्यादौ अविनाभावशब्दार्थः ।
अविनाभावो गुरुमते जातेर्व्यक्तिदेशत्वम् । भट्टमते तु तादात्म्यम् इति
( काव्यप्र० टी० कमला० पृ० १७ ) ।
 
अविरतिः–[ क ] पृथिव्यादिषट्कोपादानं षडिन्द्रियासंयमनं चाविरतिः
( सर्व० सं० पृ० ७५ आर्हत० ) । [ ख ] विषयाभिलाषः ( सर्व०
सं० पृ० ३५५ पातञ्ज ० ) ।
 
अविवेकः—१ विवेकाभावः । २ अन्योन्यतादात्म्यारोपरूपं मिथ्याज्ञा-
नमिति सांख्याः ।
 
अविशेषसमः – ( जाति: ) [ क ] एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्र-
सङ्गात्सद्भावोपपत्तेरविशेषसमः ( गौ० ५/११२३) । एको धर्मः प्रयत्ना-
नन्तरीयकत्वं शब्दघटयोरुपपद्यत इत्यविशेष उभयोरनित्यत्वे सर्वस्या-
• विशेषः प्रसज्यते । कथम् । सद्भावोपपत्तेः । एको धर्मः सद्भावः सर्व-
स्योपपद्यते । सद्भावोपपत्तेः सर्वाविशेष प्रसङ्गात्प्रत्यवस्थानमविशेषसमः
* (वात्स्या० ५।१।२३) । अविशेषेण समः अविशेषसमः इति व्युत्पत्तिः ।
[ख] सन्मात्रवृत्तिधर्मेणाविशेषापादनम् । प्रतिकूलतर्कदेशनाभासोयम्
( गौ० वृ० ५/१/२३ ) । [ग] सर्वाविशेषप्रसङ्गोद्भावनम् । यथा
शब्दः अनित्यः कृतकत्वादित्यादौ यदि कृतकत्वादिना अनित्यघटा दिसा-
धर्म्येण शब्दस्यानित्यत्वं तदा प्रमेयत्वादिरूपेण तत्साधर्म्येण सर्वस्यैवा-
नित्यत्वं स्यात् । मदुक्तसाधर्म्येण तत्सिध्यति न तु त्वदुक्तेनेत्यत्र विनिग
मकाभावादिति ( नील० पृ० ४४ ) ।
 
-
 
अवेष्टिः- राजसूये अवेष्टिसंज्ञकाः पञ्च यागाः । ते च यथा आग्नेयमष्टा-
कपालं निर्वपति हिरण्यं दक्षिणा । ऐन्द्रमेकादशकपालमृषभो दक्षिणा ।