2023-10-19 17:02:16 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९४
 
न्यायकोशः ।
 
नामधेयवान् ( अग्निमान् ) तत्केतुमत्त्वात् ( तस्य अग्ने: केतुर्धूमस्त-

द्वत्त्वात् ) इत्यादीति । धरा धरित्री धरणिः क्षोणि काश्यपी क्षितिरिति

कोशात् कश्यपतनया भूरिति भावः । पर्वतो वह्निमान् धूमवत्त्वादिति

यावत् । तृतीयं यथा श्वेतो धावति ( श्वा इतो धावति ) इत्यादि ।

एवम् अतिद्रुतोच्चारितादिकमपीति ( गौ० वृ० ५१२/९ ) । [ख]

अवहिताविकलव्युत्पन्नपरिषत्प्रतिवादिबोधानुकूलोपस्थित्यजनकवाचकवा

क्यप्रयोगः ( गौ० वृ० ५।२९ ) ( दि० १ पृ० २२ ) । अत्र च

पराज्ञानापादनेन मम जयो भविष्यति इति भ्रमादुक्तिसंभवः ( गौ० दृ०

५।२/९ ) । [ग] परिषत्प्रतिवाद्यबोधप्रयोजकपदप्रयोगः । तच्च क्लिष्ट -

न्वयमप्रसिद्धार्थकं त्वरितोच्चारितमित्यादिरूपम् ( नील० पृ० ४५ ) ।
लोकनिन्दितकर्म

 
<अवितत्
करणम्
 
-
 
अवितत्करणम् –
>
कार्याकार्यविवेकविकलस्येव
लोकनिन्दितकर्म करणम्
( सर्व० सं० पृ० १७० नकुली० ) ।
 
-
 

 
<
अवितद्भाषणम् - >
व्याहतापार्थकादिशब्दोच्चारणम् ( सर्व० सं० पृ०

१७० नकुली ० ) ।
 
अविद्या –

 
<अविद्या>
[ क ] ज्ञानाभावः । अत्र मतभेदेन बहुप्रकाराः सन्ति ।

विस्तरभयान्नोच्यन्ते । [ ख ] अनित्याशु चिदुःखानात्मसु नित्यशुचिसु

खात्मख्यातिरविद्या ( पात० यो० सू० २।५ ) । [ग] अनात्मनि च

देहादावात्मबुद्धिस्तु देहिनाम् । अविद्या (सर्व० सं० पृ० ३६२ पातञ्ज ० ) ।

घयदेव पररूपादर्शनं सैवाविद्या (सर्व० सं० पृ० ४५८ शांकर०) ।

[ङ ] असत्प्रकाशनशक्तिरविद्या ( सर्व० सं० पृ० ४३९ शांकर०) ।

अविद्या च (वैशेषिकमते ) दूरत्वपित्तदोषेत्यादीन्द्रियदोषजन्यो बुद्धि

विशेषः (अयथार्थबुद्धिः ) ( प्रशस्त० गु० पृ० २३ ) ।

 
<
अविनाभावः - >
१ व्याप्तिः । यथा कार्यकारणभावाद्वा स्वभावाद्वा

नियामकात् । अविनाभावनियमोद[^१]र्शनान्न न दर्शनात् ( सर्व० बौद्ध०

पृ० १६ ) इत्यादौ ग्रन्थे अविनाभावशब्दार्थो व्याप्तिः । २ संबन्ध
 

[^
] अदर्शनादिति पदच्छेदः ।
 
*