This page has not been fully proofread.

९४
 
न्यायकोशः ।
 
नामधेयवान् ( अग्निमान् ) तत्केतुमत्त्वात् ( तस्य अग्ने: केतुर्धूमस्त-
द्वत्त्वात् ) इत्यादीति । धरा धरित्री धरणिः क्षोणि काश्यपी क्षितिरिति
कोशात् कश्यपतनया भूरिति भावः । पर्वतो वह्निमान् धूमवत्त्वादिति
यावत् । तृतीयं यथा श्वेतो धावति ( श्वा इतो धावति ) इत्यादि ।
एवम् अतिद्रुतोच्चारितादिकमपीति ( गौ० वृ० ५१२/९ ) । [ख]
अवहिताविकलव्युत्पन्नपरिषत्प्रतिवादिबोधानुकूलोपस्थित्यजनकवाचकवा
क्यप्रयोगः ( गौ० वृ० ५।२९ ) ( दि० १ पृ० २२ ) । अत्र च
पराज्ञानापादनेन मम जयो भविष्यति इति भ्रमादुक्तिसंभवः ( गौ० दृ०
५।२/९ ) । [ग] परिषत्प्रतिवाद्यबोधप्रयोजकपदप्रयोगः । तच्च क्लिष्ट -
न्वयमप्रसिद्धार्थकं त्वरितोच्चारितमित्यादिरूपम् ( नील० पृ० ४५ ) ।
लोकनिन्दितकर्म करणम्
 
-
 
अवितत्करणम् – कार्याकार्यविवेकविकलस्येव
( सर्व० सं० पृ० १७० नकुली० ) ।
 
-
 
अवितद्भाषणम् - व्याहतापार्थकादिशब्दोच्चारणम् ( सर्व० सं० पृ०
१७० नकुली ० ) ।
 
अविद्या – [ क ] ज्ञानाभावः । अत्र मतभेदेन बहुप्रकाराः सन्ति ।
विस्तरभयान्नोच्यन्ते । [ ख ] अनित्याशु चिदुःखानात्मसु नित्यशुचिसु
खात्मख्यातिरविद्या ( पात० यो० सू० २।५ ) । [ग] अनात्मनि च
• देहादावात्मबुद्धिस्तु देहिनाम् । अविद्या (सर्व० सं० पृ० ३६२ पातञ्ज ० ) ।
घयदेव पररूपादर्शनं सैवाविद्या (सर्व० सं० पृ० ४५८ शांकर०) ।
[ङ ] असत्प्रकाशनशक्तिरविद्या ( सर्व० सं० पृ० ४३९ शांकर०) ।
अविद्या च (वैशेषिकमते ) दूरत्वपित्तदोषेत्यादीन्द्रियदोषजन्यो बुद्धि
विशेषः (अयथार्थबुद्धिः ) ( प्रशस्त० गु० पृ० २३ ) ।
अविनाभावः - १ व्याप्तिः । यथा कार्यकारणभावाद्वा स्वभावाद्वा
नियामकात् । अविनाभावनियमोदर्शनान्न न दर्शनात् ( सर्व० बौद्ध०
पृ० १६ ) इत्यादौ ग्रन्थे अविनाभावशब्दार्थो व्याप्तिः । २ संबन्ध
 
१ अदर्शनादिति पदच्छेदः ।
 
*