न्यायकोशः /147
This page has not been fully proofread.
न्यायकोशः ।
९३
च संस्कारमात्रजन्यो बुद्धेर्विषयाकारः परिणामः । सुषुयवस्था तु द्विविधा
समयभेदात् । तत्रार्धलये स्वगतसुखदुःखमोहाकारैव बुद्धि-
वृत्तिर्भवति न तु विषयाकारा वृत्तिर्भवति । समग्रलये तु बुद्धिवृत्तिसा-
मान्याभावरूपा मरणादाविव भवति । पुरुषस्तदा तत्साक्षी न भवतीति
विज्ञेयम् । सिद्धान्तबिन्दौ (पृ० १८८) जाग्रदादीनां लक्षणान्युक्तानि ।
इन्द्रियवृत्तिक/लीनार्थोपलम्भो जागरणम् । इन्द्रियवृत्त्यभावकालीनार्थो-
अपलम्भः स्वप्नः । न किंचिदवेदिषमिति कारणमात्रोपलम्भः सुषुप्तिः इति ।
कौमारपौगण्डकैशोरयौवनबाल्यतारुण्यवृद्धत्ववर्षीयस्त्वभेदेनाष्टविधेति
णिकाः । बाल्यकौमारयौवनवृद्धत्वभेदेन चतुर्विधेति भिषज: । अभिला-
षश्चिन्तास्मृतिगुणकथनोद्वेगसंलापाः । उन्मादोथ व्याधिर्जडता स्मृतिरिति
दशैव कामदशाः॥ इति भेदेन दशविधेत्यालंकारिका आहुः (वाच० ) ।
आ लाभप्राप्तेरेकमर्यादावस्थितस्य यदवस्थानं सा अवस्था ( सर्व० सं०
पृ० १६३ नकुली० ) ।
पौरा-
अवाची – ( दिक् ) दक्षिणावदस्यार्थोनुसंधेयः ।
अवान्तर प्रलयः - (प्रलयः ) खण्डप्रलयवदस्यार्थोनुसंधेयः ( त० दी ०
१ पृ० १० ) ।
अविज्ञातार्थम् – ( निग्रहस्थानम् ) [क] परिषत्प्रतिवादिभ्यां त्रिरभिहित-
"मप्यविज्ञातम विज्ञातार्थम् ( गौ० ५/२/९) । यद्वाक्यं त्रिरभिहितमपि
परिषदा प्रतिवादिना च न विज्ञायते श्लिष्टशब्दमप्रतीतप्रयोगमतिद्रु-
तोच्चारितमित्येवमादिना कारणेन तदविज्ञातमविज्ञातार्थमसामर्थ्य संवरणा
• प्रयुक्तमिति निग्रहस्थानमिति ( वात्स्या० ५/२/९ ) । एतस्य त्रेधा
संभवः । असाधारणतन्त्र मात्रप्रसिद्धम् अतिप्रसक्तयोगमनपेक्षितरूढिकम्
श्लिष्टं चेति । तत्राद्यं यथा पञ्च स्कन्धादयो बौद्धानाम् । तत्र रूपादयः
पञ्चेन्द्रियाणि च रूपस्कन्धः । सविकल्पकं संज्ञास्कन्धः । रागद्वेषाभिनिवेशाः
संस्कारस्कन्धः । सुखदुःखे वेदनास्कन्धः । निर्विकल्पकं ज्ञानस्कन्ध इति ।
द्वितीयं यथा कश्यपतनयाधृतिहेतुरयं ( भूधरोयम् ) त्रिनयनसमान-
-