2023-10-19 16:53:40 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९१
 
न्यायकोशः ।
 

 
(ग०अव०) । [ घ ] प्रतिज्ञाद्यघटकत्वे सत्युभयघटकभागद्वयाघटितत्वम्

( दीवि० २ पृ० १६६) । प्रतिज्ञाद्यघटकत्वं च मिलितभेदपञ्चकानु-

योगितावच्छेदकभिन्नधर्मवत्त्वम् (ग० अव०) । उभयं च प्रतिज्ञाहेतू हेतू-

दाहरणे उदाहरणोपनयौ उपनयनिगमने इति विशिष्य वक्तव्यम् ( दीधि०

२ पृ० १६६) । यथा पर्वतस्य पक्षत्वे वहेः साध्यत्वे धूमस्य हेतुत्वे

पर्वतो वह्निमान् इति प्रतिज्ञावाक्यस्य धूमात् इति हेतुवाक्यस्य चावयव -

स्त्रम् । एवमुदाहरणादेरण्यवयवत्वं ज्ञेयम् । [ङ ] प्रतिज्ञादिप्रतिपाद्य-

तत्तद्विशिष्टार्थविषयक ज्ञानपञ्च कान्यतमज्ञानजनक वाक्यत्वमित्यपि केचित्

( दीधि० अव० पृ० १६६ ) ।
 

 
<
अवयवि
 

 
>
जन्यद्रव्यम् ( त० दी० पृ० ४० ) । यथा घटपटादि ।

 
<
अवरुद्धा - >
( दासी) दास्य एव स्वामिना शुश्रूषाहानिव्युदासाथै गृह एव

स्थातव्यमित्येवं पुरुषान्तरोपभोगतो निरुद्धा अवरुद्धाः ( मिताक्षरा

२।२९ ) ।
 

 
<
अवरोधः>
गतिप्रतिरोधहेत्वावरणम् । यथा गामवरुणद्धि ब्रजमित्यत्रावरु

धेरथ: (श० प्र० पृ० ९९) । अत्र गोगतिप्रतिरोधस्यानुकूलं यह्रजस्यावरणं

तत्कृतिमानित्यन्वयः ( श० प्र० पृ० ९९ ) ।

 
<
अवर्ण्यसमः -- >
(जातिः) [क] स्थापनीयो वर्ण्यः । विपर्ययादवर्ण्यः । तावेतौ

साध्यदृष्टान्तधर्मो विपर्यस्यतो वर्ण्यावर्ण्यसमौ भवतः (वात्स्या० ५/१४) ।
1.

अत्रावर्ण्यत्वेन समः अवर्ण्यसम इति व्युत्पत्तिः । असिद्धिदेशनाभासोयम् ।

[ ख ] अवर्ण्यत्वं संदिग्धसाध्यकत्वाभावः (गौ० दृ० ५/१४ ) । पक्षे

असंदिग्धसाध्यकत्वापादनम् । दृष्टान्ते हेतोर्यादृशत्वं तादृशो हेतुरेव

गमक इत्यभिमानेनैवमापादनम् । दृष्टान्ते यो हेतुः सिद्धसाध्यकवृत्तिः

स चेन्न पक्षे तदा गमकहेत्वभावात्स्वरूपासिद्धिः स्यादतस्तादृशो हेतुरवश्यं
 

पक्षत्वाभिमते स्वीकार्यः । तथा च संदिग्धसाध्यकत्वलक्षणपक्षत्वाभावादा-

श्रयासिद्धिः ( गौ० वृ० ५/१४ ) । [ग] साध्यहेत्वोर्धर्मयोरपि पक्षे

तु[^१]ल्यतया साधनम् । यथा आत्मा सक्रिय: क्रियाहेतुगुणवत्त्वालोष्टव-

[^
] तुल्यतासाधनमिति पाठान्तरम् ( नील० पृ० ४३ ) 1,