This page has not been fully proofread.

९१
 
न्यायकोशः ।
 

 
(ग०अव०) । [ घ ] प्रतिज्ञाद्यघटकत्वे सत्युभयघटकभागद्वयाघटितत्वम्
( दीवि० २ पृ० १६६) । प्रतिज्ञाद्यघटकत्वं च मिलितभेदपञ्चकानु-
योगितावच्छेदकभिन्नधर्मवत्त्वम् (ग० अव०) । उभयं च प्रतिज्ञाहेतू हेतू-
दाहरणे उदाहरणोपनयौ उपनयनिगमने इति विशिष्य वक्तव्यम् ( दीधि०
२ पृ० १६६) । यथा पर्वतस्य पक्षत्वे वहेः साध्यत्वे धूमस्य हेतुत्वे
पर्वतो वह्निमान् इति प्रतिज्ञावाक्यस्य धूमात् इति हेतुवाक्यस्य चावयव -
स्त्रम् । एवमुदाहरणादेरण्यवयवत्वं ज्ञेयम् । [ङ ] प्रतिज्ञादिप्रतिपाद्य-
तत्तद्विशिष्टार्थविषयक ज्ञानपञ्च कान्यतमज्ञानजनक वाक्यत्वमित्यपि केचित्
( दीधि० अव० पृ० १६६ ) ।
 
अवयवि
 

 
– जन्यद्रव्यम् ( त० दी० पृ० ४० ) । यथा घटपटादि ।
अवरुद्धा - ( दासी) दास्य एव स्वामिना शुश्रूषाहानिव्युदासाथै गृह एव
स्थातव्यमित्येवं पुरुषान्तरोपभोगतो निरुद्धा अवरुद्धाः ( मिताक्षरा
२।२९ ) ।
 
अवरोधः—गतिप्रतिरोधहेत्वावरणम् । यथा गामवरुणद्धि ब्रजमित्यत्रावरु
धेरथ: (श० प्र० पृ० ९९) । अत्र गोगतिप्रतिरोधस्यानुकूलं यह्रजस्यावरणं
तत्कृतिमानित्यन्वयः ( श० प्र० पृ० ९९ ) ।
अवर्ण्यसमः -- (जातिः) [क] स्थापनीयो वर्ण्यः । विपर्ययादवर्ण्यः । तावेतौ
साध्यदृष्टान्तधर्मो विपर्यस्यतो वर्ण्यावर्ण्यसमौ भवतः (वात्स्या० ५/१४) ।
1. अत्रावर्ण्यत्वेन समः अवर्ण्यसम इति व्युत्पत्तिः । असिद्धिदेशनाभासोयम् ।
[ ख ] अवर्ण्यत्वं संदिग्धसाध्यकत्वाभावः (गौ० दृ० ५/१४ ) । पक्षे
• असंदिग्धसाध्यकत्वापादनम् । दृष्टान्ते हेतोर्यादृशत्वं तादृशो हेतुरेव
• गमक इत्यभिमानेनैवमापादनम् । दृष्टान्ते यो हेतुः सिद्धसाध्यकवृत्तिः
• स चेन्न पक्षे तदा गमकहेत्वभावात्स्वरूपासिद्धिः स्यादतस्तादृशो हेतुरवश्यं
 
पक्षत्वाभिमते स्वीकार्यः । तथा च संदिग्धसाध्यकत्वलक्षणपक्षत्वाभावादा-
श्रयासिद्धिः ( गौ० वृ० ५/१४ ) । [ग] साध्यहेत्वोर्धर्मयोरपि पक्षे
• तुल्यतया साधनम् । यथा आत्मा सक्रिय: क्रियाहेतुगुणवत्त्वालोष्टव-
१ तुल्यतासाधनमिति पाठान्तरम् ( नील० पृ० ४३ ) 1,