This page has not been fully proofread.

न्यायकोशः ।
 
लक्षणाभावात् । न्यायाघटकत्वाच्च । किं तु न्यायाङ्गतयोपयुज्यन्ते
(चि० २ पृ० ८३ ) (गौ० वृ० १ । १ । ३२ ) ( वात्स्या० १ । १ । ३२ ) ।
'अवयवप्रयोगे विशेषो ज्ञेयः - केवलव्यतिरेकिण्यनुमाने प्रतिज्ञाहेतू तुल्या-
वेव । अन्वयव्यतिरेक्यनुमाने केवलान्वय्यनुमाने च यादृशाकारौ प्रतिज्ञाहेतू
भवतस्तादृशाकारावेवेति यावत् । उदाहरणोपनयनिगमनानि तु भिद्यन्ते ।
यथा जीवच्छरीरं सात्मकं प्राणादिमत्त्वादित्यत्र यत् सात्मकं न भवति
तत् प्राणादिमन्न भवति यथा घटः इत्युदाहरणम् । न चेदं जीवच्छरीरं
प्राणादिमन्न भवति इत्युपनयः । तस्मान्न तथा इति निगमनम् इति
(त० कौ० २ पृ० १३ ) ।
 
अवयवत्वम् –(न्यायावयवत्वम् ) [ क ] प्रतिज्ञाद्यन्यतमत्वम् (गौ० वृ०
१ । १ । ३२ ) ( न्या० म० २ पृ० २४ ) ( न्या० बो० पृ० १५ )
( म० प्र० २ पृ० ३३ ) । प्रतिज्ञाद्यन्यतमत्वं प्रतिज्ञादिभेदपञ्चकाभाव-
वत्त्वमित्यर्थः । प्रतिज्ञायां हेत्वादिमेदचतुष्टयसत्त्वेपि स्वभेदाभावाद्भेद-
पञ्चकाभाववत्त्वं संपद्यते । एवं हेतावपीति लक्षणसमन्वयः ( म०प्र० २
पृ० ३३ ) । [ ख ] अनुमितिचरमकारणलिङ्ग परामर्शप्रयोजशब्द-
ज्ञानजनकशाब्दज्ञानजनकवाक्यत्वम् (चि०अव० पृ०७६ ) । तदर्थश्च -
अनुमितेश्वरमं कारणं यः परामर्शः तस्य प्रयोजकं शाब्दज्ञानम् न्यायात्मक-
• प्रतिज्ञा दिपञ्चवाक्यंजन्यं तावदर्थविषयकं विशिष्टवैशिष्ट्यावगाहिज्ञानम् समू-
हालम्बनात्मकं वा । तस्य जनकं शाब्दज्ञानम् प्रत्येकावयवजन्यज्ञानम् ।
• तस्य जनकं वाक्यम् तत्त्वम् इति । [ग] न्यायान्तर्गतत्वे सति प्रतिज्ञाद्यन्यतम
त्वम् । न्यायान्तर्गतत्वं च स्वाविषयकप्रतीत्यविषयन्यायकत्वम् । न्यायत्वाश्र
यत्वं वा । प्रतिज्ञोत्तरहेत्वादिघटितवाक्यपञ्चका नुपूर्वीविशेषावच्छिन्नभेदप्रति
योगितावच्छेदकत्वं वा । तादृशानुपूर्वीविशेषप्रकारकनिश्चयत्वसमनियत
कारणतावच्छेदकविषयिताकत्वं वा । प्रतिज्ञाद्यन्यतमत्वं च प्रतिज्ञात्वाद्य-
वच्छिन्नानुयोगिताकभेदप्रतियोगितावच्छेदकं यद्यत्तदवच्छिन्नप्रतियोगिता
कभेदानुयोगितावच्छेदको यः प्रतिज्ञादिभेदपञ्चकानुयोगितावच्छेदकं यद्य
द्रूपं तदवच्छिन्नानुयोगिताक भेद प्रतियोगितावच्छेद की भूतो धर्मस्तत्वम
 
९०
 
.