This page has not been fully proofread.

न्यायकोशः ।
 
( त० भा० पृ० ४३ ) ( त० सं० ) । वाक्यैकदेश इत्य-
स्वार्थस्तु पूर्वस्मृत्यपेक्षोन्त्यपदप्रत्ययः स्मृत्यनुग्रहेण प्रतिसंधीयमानो
विशेष प्रतिपत्तिहेतुर्वाक्यं तस्य भाग एकदेश इति ( न्या० बो० ) ।
प्रतिज्ञादिमेदादवयवाः पञ्चेति न्यायमकरन्दे ( न्या० म० २१ २४ )
उक्तम् । एते प्रतिज्ञादयः पञ्चानुमानस्यावयवा इव अवयवाः । न तु सम-
वायिकारणम् । शब्दस्याकाशसमवेतत्वात् ( त०] भा० पृ० ४३ ) ।
केचित्तु ( मीमांसकाः ) उदाहरणान्तास्त्रय एवावयवा इत्याहुः । तन्न ।
तृतीयलिङ्गपरामर्शस्य व्याप्तिपक्षधर्मतावगाहिनोवयवान्तरादलाभात् ।
तदनभ्युपगमेपि पक्षधर्मताया अलाभात् । न च हेतुवचनादेव तदव -
गमः । तस्य को हेतुः इत्याकाङ्क्षायां प्रवृत्तत्वेन हेतुस्वरूपोत्थापकस्यात-
त्परत्वात् (चि० २ पृ० ८१) । हेतूदाहरणोपनयनानि एते त्रयोवयवा
इति केचित् मन्यन्ते ( वाच ० ) । उदाहरणोपनयौ द्वाववयवाविति बौद्धा
आहुः ( म० प्र० २ पृ० ३३ ) । रामानुजीयास्तु वदन्ति अस्माकं
तु अनियमः । कचित्पञ्चावयवो न्यायः । कचित्र्यवयवः । कचित्द्व्य-
वयवः । उदाहरणोपनयाभ्यामेव व्याप्तिपक्षधर्मतयोः सिद्धत्वात् । तावतै-
वानुमित्युपपत्तेश्च । मृदुमध्यमकठोरधियां विस्तरसंग्रहाभ्यां व्यवहार
उपपद्यत इत्यनियम एवेति ( यतीन्द्र० दी० द्वि० अ० पृ० २१ ) ।
जिज्ञासा संशयः शक्यप्राप्तिः प्रयोजनं संशयव्युदासश्चेति एते
 
प्रतिज्ञादिसहिता
 
आहुः
 
दशावयवा
 
( म० प्र० २ पृ० ३३ ) (चि०
 

 
इत्यतिप्राचीन नैयायिका
प्र० पृ० ५२ ) (गौ० वृ०
१ । १ । ३२ ) (वात्स्या० १ । १॥३२) । जिज्ञासादीनामर्थश्च तात्पर्यटीकाया-
मुक्तः । प्रयोजनं हानोपादानोपेक्षाबुद्धयः । तत्प्रवर्तिका जिज्ञासा । तज्जनकः
संशय: । प्रमाणानां जननसामर्थ्यं शक्यप्राप्तिः । संशयव्युदासस्तर्कः
( गौ ०
८० वृ० १ । १ । ३२ ) ( वात्स्या० ११ १२ १३२ ) । तत्र विप्रतिपत्ति-
• जिज्ञासेति कश्चित् । मञ्जरीप्रकाशकारास्तु पदवाक्यप्रमाणानां ज्ञानजनन-
योजक प्राप्तिः । कथायां यदुद्देश्यं तत्प्रयोजनमित्याहुः ( म०
 
प्र० २ पृ० ३३) । एते जिज्ञासादयः पञ्च न न्यायावयवाः । अवयव-
१२ न्या० को●