This page has not been fully proofread.

८८
 
न्यायकोशः ।
 
अवधिः सम्यग्दर्शनादिगुण जनितक्षयोपशम निमित्तमवच्छिन्नविषयं ज्ञान-
मवधिः ( सर्व० सं० पृ० ६३ आर्हत० ) ।
 
अवधित्वम् – १ [क] संबन्धविशेषः । यथा वृक्षाद्विभजत इत्यादौ
द्रव्यनिष्ठमवधित्वं पञ्चम्यर्थः ( दीधि ० २ अव० पृ० १७५) । [ख]
स्वरूपसंबन्धविशेषः । यथा वृक्षाद्विभजत इत्यादौ वृक्षादेरवधित्वात्मक-
मपादानत्वम् ( ग० व्यु० ५ ) । २ सीमात्वम् । तच्च स्वाभिधेयापेक्षया
विभागाश्रयत्वम् । सीमा च त्रिविधा । कालकृता देशकृता बुद्धिकृता
च । तत्र प्रथमा मासात्पूर्वं घट इत्यादौ । द्वितीया नद्या वनमित्यादौ ।
वनस्य नद्यपेक्षविभागाश्रयत्वात्तथा त्वम् । तृतीया तु माथुराः पाटलिपुत्रेभ्य
आढ्यतरा इत्यादौ ( वाच० ) ।
 
अवधिमत्त्वम् – संबन्धविशेषः । यथा वृक्षाद्विभजते इत्यादौ धात्वर्थ विभागे
अवधिमत्त्वं पञ्चम्यर्थः । वृक्षात्पर्ण पततीत्यादौ च विभागे अवधिमत्त्वं
 
संबन्ध: ( दीधि ० २ अव० पृ० १७५ ) ।
 
अवयवः - (द्रव्यावयवः) द्रव्यस्य समवायिकारणम् (त० दी० पृ० ४० ) ।
यथा अवयवावयविनो: संबन्धः समवाय इत्यादौ कपालं घटस्यावयवः
तन्तुश्च पटस्यावयवः । स चावयवः परमाणुनारभ्य कपालपर्यन्तं
 
तन्तुपर्यन्तं चानेकधा ।
 
अवयवः - ( न्यायावयवः ) [क] साधनीयस्यार्थस्य यावति शब्दसमूद्दे
सिद्धिः परिसमाप्यते तस्य पञ्चावयवाः प्रतिज्ञादयः समूहमपेक्ष्यावयवा
उच्यन्ते । तेषु प्रमाणसमवाय आगमः प्रतिज्ञा । हेतुरनुमानम् । उदा-
हरणं प्रत्यक्षम् । उपनयनमुपमानम् । सर्वेषामेकार्थसमवाये सामर्थ्यप्र-
दर्शनं निगमनमिति । सोयं परमो न्याय इति ( वात्स्या० १११।१ ) ।
[ख ] अर्थसाधकभावात्तु प्रतिज्ञादयः साधकवाक्यस्य भागा एकदेशा
अवयवा इति ( वात्स्या० १।१।३२ ) । [ग ] परार्थानुमानवाक्यै-
कदेश: ( सर्व० सं० पृ० २३८ अक्ष० ) । ते चावयवाः पञ्च ।
प्रतिज्ञा हेतु: उदाहरणम् उपनयः निगमनं चेति ( गौ० १/१/३२ )