2023-10-19 15:50:50 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
अवच्छेदकत्वम् –
<अवच्छेदकत्वम्>
१ स्वरूपसंबन्धविशेषः । स च क्वचित् [क] प्रति-

योग्यंशप्रकारीभूतधर्मत्वम् । यथा प्रमेयधूमाभावप्रतियोगिताया अवच्छे-

दकत्वं घूमत्वे । अत्रायं नियमः - संभवति लघौ गुरौ सदभाव इति ।

तेन गुरुभूते प्रमेयत्वविशिष्टधूमत्वेवच्छेदकत्वमनादृत्य शुद्धघूमत्व एवा-

वच्छेदकत्वं स्वीकृतमिति ज्ञेयम् । समानाधिकरणयोरेव धर्मयोरवच्छेद्या-

वच्छेदकभाव इति सामान्यनियमो बाहुल्येन प्रवर्तत इत्येतत्सुधीभि-

श्चिन्त्यम् । क्वचित् [ ख ] अनतिरिक्तवृत्तित्वम् । तच्च द्विविधम् ।

तत्राद्यम्-तच्छून्यावृत्तित्वे सति तदधिकरणवृत्त्यभावाप्रतियोगित्वम् ।

यथा घटाभावप्रतियोगिताया अवच्छेदकत्वं घटत्वे । अत्रायं नियम :-

अन्यूनानतिरिक्तवृत्तिधर्मस्यैवावच्छेदकत्वम् इति । तेनातिरिक्तवृत्तिद्रव्यत्वा दौ

घटाभावीयप्रतियोगिताया अवच्छेदकत्वनिरासः । अनतिरिक्तवृत्तित्व-

रूपमवच्छेदकत्वं च यद्यपि न स्वरूपसंबन्धरूपावच्छेदकत्वेन्तर्भवेत्तथा-

प्युदाहरणानुरोधेन तत् अन्तर्निवेशितम् । वस्तुतस्तु तत्तन्निष्ठमवच्छेद-

कत्वं च तत्तद्वित्तिवेद्यमेवेति नैवानुगमय्य निर्वक्तुं शक्यमिति तु वयम् ।

द्वितीयं तु व्यावर्तकत्व - सामानाधिकरण्य- स्वनिष्ठावच्छेद्यताकत्व - एत

त्रितयसंबन्धेन यत्किंचिद्धर्मविशिष्टत्वम् । यथा घटकारणताया अवच्छेद-

कत्वं दण्डत्वे । अत्र च इतरभेदानुमितिजनकज्ञान
 
विषयत्वात्मकव्याव-

तकता यामवच्छेदकस्तु परंपरासंबन्धो बोध्यः । क्वचित् [ग ] तदधि-

किं तु शाखायामित्यादौ वृक्षाधिकरणस्य मूलस्य वृक्षनिष्ठकपिसंयोगा

करणस्य तन्निष्ठधर्मावच्छेदकत्वम् । यथा मूले वृक्षे न कपिसंयोगः

भावावच्छेदकत्वम् वृक्षाधिकरणस्य शाखादेर्वृक्षनिष्ठकपिसंयोगावच्छेद

च ( ल० व० पृ० २२) । अत्रावच्छेदकत्वं च स्वाश्रयसंबन्धित्वम् ।

• नितम्बे हुताशनः न शिखर इत्यत्र नितम्बरूपदेशस्य हुताशनावच्छेद-

स्वम् अवच्छेद्यत्वेनाभिमतः कपिसंयोगाभावादिः । यथा वा इह पर्वते

कत्वम् शिखरस्य तु हुताशनाभावावच्छेदकत्वं च । अत्रायं विशेष:-

. यथा वा इदानीं चत्वरे गौर्नास्तीत्या दावेतत्कालेपि गवाभावस्यावच्छेदक

संयोगेन द्रव्यस्याव्याप्यवृत्तित्वमिति मत एतस्यावच्छेदकत्वम् इति ।