2023-10-19 13:53:36 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७७
 
वा- अनित्यः शब्दो निरोधधर्मको ध्वान इति ( वात्स्या० ५/२।१४ ) ।

[ख ] अर्थादापन्नस्य स्वशब्देन पुनर्वचनम् ( गौ० ५/२/१५ ) ।

पुनरुक्तमिति प्रकृतम् । निदर्शनम् । उत्पत्तिधर्मकत्वादनित्यमित्युक्त्वा

अर्थादापन्नस्य योभिधायकः शब्दस्तेन स्वशब्देन ब्रूयादनुत्पत्तिधर्मकं

नित्यमिति । तच्च पुनरुक्तं वेदितव्यम् । अर्थसंप्रत्ययार्थे शब्दप्रयोगे

प्रतीतः सोर्थोर्थापत्त्येति (वात्स्या० ५/२/१५ ) । [ग ] यस्मिन्नुक्ते

यस्यार्थस्यौत्सर्गिकी प्रतिपत्तिर्भवति तस्य तेन रूपेण पुनरभिधानं पुन-

रुक्तम् । इदमेव चार्थपुनरुक्तमिति गीयते । यथा वह्निरुष्ण इति । पूर्व-

पदाक्षिप्तोक्तिरियम् । उष्णो वह्निरिति उत्तरपदाक्षिप्तोक्तिः । एवं बहि-

। (रस्ति गेहे नास्ति इति विध्याक्षिप्तोक्तिः । जीवन्गेहे नास्ति
बहिरस्ति
इति निषेधाक्षिप्तोक्तिः ( गौ० वृ० ५/२/१५ ) ।

 
<
अर्थवादः - >
(शब्दः ) अर्थस्य प्रयोजनस्य वादो वादनम् । विध्यर्थप्रशंसापरं

वचनमित्यर्थः । अर्थवादो हि स्तुत्यादिद्वारा विध्यर्थं शीघ्रं प्रवृत्तये

प्रशंसति ( गौ० वृ० २।१।६३ ) । निषिद्धार्थ शीघ्रं निवृत्तये निन्दति

च । स चार्य अर्थवाद: लोके वेदे च समानः ( त० कौ०
 
बहिरस्ति
 
भार
 
52
 

४।१७ ) । तत्र लौकिक:- ओदनकामस्तण्डुलं पचेत तृप्तिका मस्तण्डु-
1.

लौदनं भुञ्जीतेत्यादौ विध्यर्थस्य तण्डुलपाककरणस्य तण्डुलौदनभोजन-

रूपस्य च स्तावकं तण्डुलपाक ऋषिभिः पूर्व स्वर्गाद्यर्थं कृतः ओदनम-

मृतम् इत्यादि वाक्यम् । एवं कफज्वरपीडितो दुग्धं न पिबेदित्यादि-

निषेधविधिस्थलेपि दुग्धपानस्य निन्दकं पशुभिर्भक्षितेनापथ्यतॄणा दिना

दुग्धं जन्यते तच्च विषरूपमित्यादिकं वाक्यम् । वैदिकोदाहरणानि स्वनु-

पदं प्रदर्श्यन्ते । अर्थवादश्च विधिनिषेधभिन्नः शब्दः । यथा- आदित्यो

यूपः अग्निर्हिमस्य भेषजम् वज्रहस्तः पुरंदर इत्यादि ( त० कौ० ४

पृ० १७) । अत्राद्यं गुणवादोदाहरणम् । द्वितीयमनुवादोदाहरणम् ।

तृतीयं भूतार्थवादोदाहरणम् । प्राशस्त्यनिन्दान्यतरपरं वाक्यं चार्थवादः

( लौ० भा० ) । यथा वायुर्वै क्षेपिष्ठा देवतेत्यादिः । सोरोदी दिल्या-

दिर्वा । अत्र च वायव्य५ श्वेतमालमेत भूतिकामो वायुर्वै क्षेपिष्ठा देवता