2023-10-19 12:59:19 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७५
 
यथा शुक्तौ इदं रजतम् इति ज्ञानम् । एतानि च पूर्वोक्तानि लक्षणानि

स्मृतिसाधारणान्यपि भवन्ति इति बोध्यम् । शुक्तौ इदं रजतम् इति

ज्ञाने प्रसिद्धशुक्तिरजतत्वयोरलीक एव समवायो भासत इत्यसख्याति

वाचस्पतिमिश्रा अङ्गीचक्रुः ( सि० च० १११९) । मीमांसकास्तु अय-

। (थार्थज्ञानमेवाप्रसिद्धम् । पुरोवर्तिज्ञानरजतस्मरणाभ्यामेव रजतानयने प्रवृ-

युपपत्तेरिति वदन्ति (सि० च० ११ १९ ) ।

 
<
अयथार्थानुभवः>
अप्रमावदस्यार्थोनुसंधेयः (मु०) (सि० च० ) ।
अयनम् -

 
<अयनम्>
ऋतुत्र्यं चायनं स्यात् ( विष्णुध ० ) ( पु० चि० पृ० ९ ) ।

 
<
अयाचितम्>
[ क ] संकल्पोत्तरं याञ्चां विना लब्धस्य दिने रात्रौं वा

भोजनयोग्यकाले सद्भोजनम् । अयाचितालाभे उपवासः । एतदन्य-

तरदयाचितस्वरूपम् । [ख] याचनां विना अन्येन दत्तस्य भोजनमया-

चितम् (पु० चि० पृ० ४९ ) ।
 
-
 
-
 

 
<
अयुत सिद्धम् - >
ययोर्द्वयोर्मध्य एकमविनश्यदपराश्रितमेवावतिष्ठते तावयुत-

सिद्धौ । नाशपूर्वक्षणपर्यन्तमित्यर्थः । अत्रेदं बोध्यम्-न घटाद्यवयवी

कपालाद्यवयवासंबद्धः सन् तिष्ठति (वै० वि० ७/२/१३ ) ।

अवयव्यादयो हि अविनश्यन्तोवयवाद्याश्रिता एवावतिष्ठन्ते । अवयवा-

दिनाशानन्तरं विनश्यन्तस्तु क्षणमात्रं निराश्रिता एवावतिष्ठन्त इति

( त० कौ० २० ) । अयुतसिद्धौ च पञ्चविधौ । यथा - अवयवावय-

गुणगुणन क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति
 
(छ
 
-
 

( त० सं० ) ( त० कौ० २० ) ( त०] भा० पृ० ३ ) ।

 
<
अर्कदैवत्यम् - >
(नक्षत्रम्) हस्तः ( पु० चि० पृ० ३५७ ) ।

 
<
अर्चा>
प्रतिमादयः ( सर्व० सं० पृ० ११५ रामानु० ) ।
अजेनम् -

 
<अर्जनम्>
स्वत्वजनकव्यापारः । यथा याजनाध्यापनप्रतिग्रहैर्द्विजो धन

मर्जयेदिति श्रुतौ धात्वर्थः (श० प्र० ८५ ) ।

 
<
अर्थ: - >
१ अर्थ इति द्रव्यगुणकर्मसु (वै० ८।२।३) । एतस्य व्याख्या-

[क] एतेषां द्रव्यगुणकर्मणामर्थ्यमानत्वं तेन तेन विधिनोक्तम् । तेन

। तेषु त्रिषु वैशेषिकाणामर्थ इति परिभाषा । अर्थपदेन त्रयाणामुपस्थितेः ।
 
-