न्यायकोशः /129
This page has not been fully proofread.
न्यायकोशः ।
७५
यथा शुक्तौ इदं रजतम् इति ज्ञानम् । एतानि च पूर्वोक्तानि लक्षणानि
स्मृतिसाधारणान्यपि भवन्ति इति बोध्यम् । शुक्तौ इदं रजतम् इति
ज्ञाने प्रसिद्धशुक्तिरजतत्वयोरलीक एव समवायो भासत इत्यसख्याति
वाचस्पतिमिश्रा अङ्गीचक्रुः ( सि० च० १११९) । मीमांसकास्तु अय-
। (थार्थज्ञानमेवाप्रसिद्धम् । पुरोवर्तिज्ञानरजतस्मरणाभ्यामेव रजतानयने प्रवृ-
युपपत्तेरिति वदन्ति (सि० च० ११ १९ ) ।
अयथार्थानुभवः – अप्रमावदस्यार्थोनुसंधेयः (मु०) (सि० च० ) ।
अयनम् - ऋतुत्र्यं चायनं स्यात् ( विष्णुध ० ) ( पु० चि० पृ० ९ ) ।
अयाचितम् –[ क ] संकल्पोत्तरं याञ्चां विना लब्धस्य दिने रात्रौं वा
भोजनयोग्यकाले सद्भोजनम् । अयाचितालाभे उपवासः । एतदन्य-
तरदयाचितस्वरूपम् । [ख] याचनां विना अन्येन दत्तस्य भोजनमया-
चितम् (पु० चि० पृ० ४९ ) ।
-
-
अयुत सिद्धम् - ययोर्द्वयोर्मध्य एकमविनश्यदपराश्रितमेवावतिष्ठते तावयुत-
सिद्धौ । नाशपूर्वक्षणपर्यन्तमित्यर्थः । अत्रेदं बोध्यम्-न घटाद्यवयवी
कपालाद्यवयवासंबद्धः सन् तिष्ठति (वै० वि० ७/२/१३ ) ।
• अवयव्यादयो हि अविनश्यन्तोवयवाद्याश्रिता एवावतिष्ठन्ते । अवयवा-
दिनाशानन्तरं विनश्यन्तस्तु क्षणमात्रं निराश्रिता एवावतिष्ठन्त इति
( त० कौ० २० ) । अयुतसिद्धौ च पञ्चविधौ । यथा - अवयवावय-
गुणगुणन क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति
(छ
-
( त० सं० ) ( त० कौ० २० ) ( त०] भा० पृ० ३ ) ।
अर्कदैवत्यम् - (नक्षत्रम्) हस्तः ( पु० चि० पृ० ३५७ ) ।
अर्चा – प्रतिमादयः ( सर्व० सं० पृ० ११५ रामानु० ) ।
अजेनम् - स्वत्वजनकव्यापारः । यथा याजनाध्यापनप्रतिग्रहैर्द्विजो धन
मर्जयेदिति श्रुतौ धात्वर्थः (श० प्र० ८५ ) ।
अर्थ: - १ अर्थ इति द्रव्यगुणकर्मसु (वै० ८।२।३) । एतस्य व्याख्या-
[क] एतेषां द्रव्यगुणकर्मणामर्थ्यमानत्वं तेन तेन विधिनोक्तम् । तेन
। तेषु त्रिषु वैशेषिकाणामर्थ इति परिभाषा । अर्थपदेन त्रयाणामुपस्थितेः ।