This page has not been fully proofread.

न्यायकोशः ।
 
७३
 
तार्किकाणां मतमेतत् । तन्मते प्रत्येकं तत्तदर्थेषु गृहीतशक्तिकान्येव
पदान्याकाङ्क्षादिसहकृतया तत्तत्पदवृत्त्यैव ( शक्त्या लक्षणया वा )
परस्परान्वितं विशिष्टमेकमर्थं बोधयन्ति । विशिष्टार्थबोधने अतिरिक्ताया
वाक्यशक्तेरपेक्षा नास्तीति भावः । अयमेव वाक्यार्थबोध इति शाब्द-
बोध इति चोच्यते । किं च ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादौ तप्रत्ययः
प्रकृत्यर्थोपरक्त भावनामभिधत्त इति सिद्धे व्युत्पत्तिमभ्युपगच्छतां
भट्टाचार्याणां सिद्धान्त इति विज्ञेयम् (सर्व० पृ० २८६ जैमि० ) ।
अभीष्टत्वम् – स्वकर्तव्यताप्रयोजकेच्छाविषयत्वम् ( मू० म० १ ) । यथा
सुखस्याभीष्टत्वम् ।
 

 
-
 
अभेदः - तादात्म्यम् । तच्च स्ववृत्त्यसाधारणधर्मः । यथा नीलो घटः
इत्यादौ घंटे तन्नीलत्वरूपं तादात्म्यम् ( ग० व्यु० १ ) ।
अभ्यर्थना - अधीष्टवदस्यार्थो नुसंधेयः (वै० सा० द० १३१ ) । अधीष्ट-
शब्दस्तु लिङ्शब्दव्याख्यानावसरे व्याख्यास्यते ।
अभ्यासः-१ [क] पुनःपुनः संशीलनम् (सर्व० पृ० १२४ रामा० ) ।
[ख] स्थितौ यत्नोभ्यासः । प्रकाशप्रवृत्तिरूपवृत्तिरहितस्य चित्तस्य
स्वरूपनिष्ठः परिणामविशेषः स्थितिः । तन्निमित्तीकृत्य यत्नः पुनः पुनस्तथा-
त्वेन चेतसि निवेशनमभ्यासः ( सर्व० सं० पृ० ३६६ पातञ्ज० ) ।
[ग] पौनःपुन्यम् । यथा समाधि विशेषाभ्यासात् (गौ० सू० ४/२/३६)
इत्यादौ विषयान्तरानभिष्वङ्गस्याभ्यासः ( गौ० वृ० ४/२/३६ ) ।
[घ ] संस्कारबाहुल्यम् । [ङ ] दृढतरसंस्कार इति केचित् ( गौ० वृ०
३।२।४२ ) । [च ] एकप्रकारा असकृदुक्तिरभ्यास इति मध्वाचार्यानु-
•यायिनो वेदान्तिनः । [ छ ] समाने विषये ज्ञानानामभ्यावृत्तिः (वात्स्या
३।२।४२ ) । [ज ] एकविषयाने कविज्ञानोत्पादोभ्यासः (न्या० वा० ) ।
१२ विहितयोद्वयोः पूर्वोभ्यास इति शाब्दिका वदन्ति ।
अभ्यासदशा-[क] विशेषदर्शनाधिकरणकालः । [ख] प्राथमिकज्ञान-
• समानाकारज्ञानान्तराधिकरणकालः । यथा द्वितीयादिजलज्ञानकालः ।
अभ्युपगमः-१ निश्चयविशेषः ( मू० म० १) । २ स्वीकारः । यथा-
न्या० को० १०
 
-