न्यायकोशः /126
This page has been fully proofread once and needs a second look.
प्रत्याय्यते ( ग० व्यु० का० २ ख० २ १० ७६ ) । द्वितीयं यथा-
काशीतः पाटलिपुत्रं यावदृष्टो देव इत्यादौ । अत्र काशीप्रभृतिपाटलि
पुत्रान्तदेशव्यापकत्वं वृष्टौ प्रतीयते । अत्र काशीपश्चिमदेशपूर्व–पाटलि -
पुत्रपूर्वदेशपश्चिम–देशव्यापकत्वं पाटलिपुत्रपूर्वदेशावृत्तित्वसहितं वृष्टौ
•
यावच्छब्देन प्रत्याय्यते । विशेषः पूर्ववत् ( मर्यादाशब्दव्याख्यानोक्त-
रीत्या ) द्रष्टव्यः ( ग० व्यु० का० २ ख० २ पृ० ७६ ) । अनयोः
दैशिककालिकयोरभिविध्योः तात्पर्यवशात्कदाचिद्वयापकत्वं तद्भिन्नका-
लावृत्तित्वविशिष्टं तद्भिन्नदेशावृत्तित्वविशिष्टं च प्रतीयत इति बोध्यम्
( ल० म० ११३ ) ।
७२
<अभिव्याप्तिः
१ अभिविधिः । स च तदारम्भकयावदवयवावच्छेदेन
तत्संयुक्तत्वम् । यथा- गृहं यावद्धनं तवेत्यत्र यावदित्यस्यार्थः । अत्र
गृहाभिव्याप्तं त्वद्धनम् इत्याकारो बोधः ( श० प्र० ११७ ) । २ तद्वृ-
त्यधिकरणता - ( मासवृत्त्यधिकरणता-) वच्छेदकीभूतयावत्त्वपर्याप्त्यधिक-
रणकालवृत्तित्वम् तथाविधयत्किंचिद्यावत्वव्यापकं वा । यथा मासं सु
प्यत इत्यादौ मासादेरभिव्याप्तिर्द्वितीयार्थः । अत्र कालाध्वनोरत्यन्तसंयोगे
(पा० सू० २।३।५) इत्यनेन द्वितीया । मासाभिव्याप्तः स्वापः इति
वः ( श० प्र० ११७ ) । देशविषये तु तद्वृत्त्यधिकरणता - ( क्रोशग-
(म्यदेशवृत्त्यधिकरणता) वच्छेदकीभूतया वत्त्वपर्यायधिकरणदेशवृत्तित्वम्
तथा विधयत्किंचिद्यावत्त्वव्यापकं वा । यथा क्रोशं गम्यत इत्यादौ क्रोशा-
देर भिव्याप्तिर्द्वितीयार्थः । अत्र क्रोशाभिव्याप्तगतेः कर्मत्वम् इति बोधः
बोधः
( श० प्र० ११७ ) ।
<अभिहितान्वयवादः
शाब्दबोधाविषयस्य शक्तिज्ञानाविषयत्वनियम इति
बादः । यथा तात्पर्यार्थोपि केषुचित् ( काव्यप्र० उ० २) इत्यादौ ।
अत्र अभिहितानां पदोपस्थितानामर्थानामन्वयः संसर्गः संसर्गमर्यादया
वाक्यार्थबोघे विषयो भवतीति वादः कथनम् इति व्युत्पत्तिः । भट्ट-
-