2023-10-19 12:34:00 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७१
 
भूदिति प्रत्यहं निमित्तं विना प्रवर्तमानो भयरूपोभिनिवेश: ( सर्व० सं०

पृ० ३६४ पातञ्ज० ) ।
 

 
<
अभिप्रायः>
इच्छावदस्यार्थोनुसंधेयः ( दि० गु० ) ।

 
<
अभिभवः>
१ [ क ] बलवत्सजातीयसंबन्धः । यथा सुवर्णे तेजोरूप-

स्याभिभवः । तदुक्तम् – भूसंसर्गवशाच्चान्यरूपं नैव प्रकाशते इति

(वै० उ० २।१।७) (दि० १ । २ ) ( प० मा० ) । [ख] बलवत्स-

जातीयग्रहणकृतमग्रहणम् । यथा सुवर्णगतरूपवृत्तिशुकृत्वभावरत्वयोरभि -

भवः । सुवर्णगतरूपस्याप्यभिभव इत्येके ( वै० उ०४।१।९) ।२ परा-

जयप्राप्तिरभिभव इति काव्यज्ञा वदन्ति ।
 
14
 
-
 
F
 

 
<
अभिमानः>
१ (दोषः) अपकारिण्यकिंचित्करस्यात्मनि द्वेषः ( गौ०

वृ० ४ । १ । ३ ) । २ भ्रम इत्यस्मगुरुचरणा: ( भिकुशास्त्रिणः ) प्रादुः ।
हुः ।
 
<
अभियोगः>
परेण कृतस्यापराधस्य राज्ञे प्राडिवाकाय वा आवेदनम् ।

(फिर्याद इति महाराष्ट्रभाषायां प्र० ) । स चाभियोगो द्विविधः । तदुक्तं

रन-अभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः । शङ्कासंस[^१]तां तु

संसर्गात्तत्त्वं होढाभिदर्शनात् ॥ ( मिताक्षरा० अ० २ श्लो० ५ ) ।

होढाशब्देन लिङ्गमुच्यते ।
 
-
 

 
[^१] अंसताम् इति पदच्छेदः ।
 
<
अभिलाषः ->
१ विषयतासंबन्धावच्छिन्नप्रीत्यनुकूल: प्रीतिव्यधिकरणो व्या-

पारः । यथा हरिर्भक्तिमभिलषतीत्यादावभिलषतेरर्थः (ल० म० १०२) ।

२ ( गुणः ) अभ्यवहारेच्छा (भोजनेच्छा) (प्रशस्त ० २ १० ३३ ) ।

 
<
अभिविधिः>
१ अभिव्याप्तिवदस्यार्थोनुसंधेयः ( श० प्र० ११७ ) ।

२ व्यापकत्वम् । यथा - आ सकला सादावाड्यो त्योभिविधिरूपः सं-

बन्ध: पञ्चम्यर्थः । सकलव्यापकं ब्रह्म इति बोधः । अभिविधिर्द्विविधः ।

कालिकः दैशिकश्च । तत्राद्यो यथा - कार्तिक्याश्चैत्रं यावच्छीतमित्यादौ ।

अत्र चैत्रपदं तदन्त्य कालपरम् । एवं च कार्तिकीप्रभृतिचैत्रान्तकाल-

व्यापकं शीतमिति बोधः । अत्र - कार्तिक पूर्वकालोत्तर- चैत्रोत्तरकाल-
१ अंसताम् इति पदच्छेदः ।
 
Y