न्यायकोशः /125
This page has not been fully proofread.
न्यायकोशः ।
७१
भूदिति प्रत्यहं निमित्तं विना प्रवर्तमानो भयरूपोभिनिवेश: ( सर्व० सं०
पृ० ३६४ पातञ्ज० ) ।
अभिप्रायः– इच्छावदस्यार्थोनुसंधेयः ( दि० गु० ) ।
अभिभवः–१ [ क ] बलवत्सजातीयसंबन्धः । यथा सुवर्णे तेजोरूप-
स्याभिभवः । तदुक्तम् – भूसंसर्गवशाच्चान्यरूपं नैव प्रकाशते इति
(वै० उ० २।१।७) (दि० १ । २ ) ( प० मा० ) । [ख] बलवत्स-
जातीयग्रहणकृतमग्रहणम् । यथा सुवर्णगतरूपवृत्तिशुकृत्वभावरत्वयोरभि -
भवः । सुवर्णगतरूपस्याप्यभिभव इत्येके ( वै० उ०४।१।९) ।२ परा-
जयप्राप्तिरभिभव इति काव्यज्ञा वदन्ति ।
14
-
F
अभिमानः – १ (दोषः) अपकारिण्यकिंचित्करस्यात्मनि द्वेषः ( गौ०
वृ० ४ । १ । ३ ) । २ भ्रम इत्यस्मगुरुचरणा: ( भिकुशास्त्रिणः ) प्रादुः ।
अभियोगः– परेण कृतस्यापराधस्य राज्ञे प्राडिवाकाय वा आवेदनम् ।
(फिर्याद इति महाराष्ट्रभाषायां प्र० ) । स चाभियोगो द्विविधः । तदुक्तं
रन-अभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः । शङ्कासंतां तु
संसर्गात्तत्त्वं होढाभिदर्शनात् ॥ ( मिताक्षरा० अ० २ श्लो० ५ ) ।
होढाशब्देन लिङ्गमुच्यते ।
-
अभिलाषः -१ विषयतासंबन्धावच्छिन्नप्रीत्यनुकूल: प्रीतिव्यधिकरणो व्या-
पारः । यथा हरिर्भक्तिमभिलषतीत्यादावभिलषतेरर्थः (ल० म० १०२) ।
२ ( गुणः ) अभ्यवहारेच्छा (भोजनेच्छा) (प्रशस्त ० २ १० ३३ ) ।
अभिविधिः—१ अभिव्याप्तिवदस्यार्थोनुसंधेयः ( श० प्र० ११७ ) ।
२ व्यापकत्वम् । यथा - आ सकला सादावाड्यो त्योभिविधिरूपः सं-
बन्ध: पञ्चम्यर्थः । सकलव्यापकं ब्रह्म इति बोधः । अभिविधिर्द्विविधः ।
कालिकः दैशिकश्च । तत्राद्यो यथा - कार्तिक्याश्चैत्रं यावच्छीतमित्यादौ ।
अत्र चैत्रपदं तदन्त्य कालपरम् । एवं च कार्तिकीप्रभृतिचैत्रान्तकाल-
• व्यापकं शीतमिति बोधः । अत्र - कार्तिक पूर्वकालोत्तर- चैत्रोत्तरकाल-
१ अंसताम् इति पदच्छेदः ।
Y