This page has not been fully proofread.

न्यायकोशः ।
 
स एवाभिचारपदार्थः । तस्य पापजनकत्वम् । एवं च श्येनेनाभिचरन्
यजेतेत्यादौ श्येनस्य हिंसात्वाभावेन बलवदनिष्टाननुबन्धित्वमपि विधि-
प्रत्ययेन बोभ्यत इत्याहुः । अत्रेदमाकूतम् - प्रथमं श्येनः । ततस्तज्जन्यम-
पूर्वम् । ततः खङ्गाघातादिरूपा हिंसा । तदव्यवहितोत्तरमेव मरणमिति ।
अत्र श्येनस्य वैधत्वात्पापाजनकत्वेपि अग्रिमपापं प्रतिसंधाय सन्तो न
प्रवर्तन्त इति ( दि०) ( राम० २२९ ) ।
 
अभिजन:- यत्र पूर्वैरुषितं सोभिजन: ( सिद्धान्तकौ० पृ० १३८
तद्धित० ) ।
 
अभिधा-१ संकेतवदस्यार्थोनुसंधेयः (दि० १) । २ संकेतग्राह्यः शक्ति
रूपः अतिरिक्तः पदार्थ इति मीमांसका आहुः ( न्या० म० ४ । ३ ) ।
अभिधाभावना-क फलजनकव्यापारानुकूलव्यापाररूपा शब्दनिष्ठा
● भावनेति भट्टाः । [ख] प्रेरणापरपर्याया पुरुषप्रवृत्तिरूपार्थभावना-
भाव्या भावना ( सर्व० सं० पृ० २६४ जै० ) ।
 
अभिधेयत्वम् –[क] भगवदिच्छारूपशब्दशक्तिविषयत्वम् । तच्च सर्वत्रैव
वर्तते । सर्वस्यैव भगवदिच्छाविषयत्वात् । वस्तुपदशक्यत्वात् ( न्या० म०
२।१९ ) । [ख ] शब्दशक्तिविषयत्वम् (त० प्र० २ ) ( दि० १ ) ।
गशब्दशक्यत्वम् ( दीधि० २) । यथा घटपटादेः सर्वस्या-
मिधेयत्वम् ।
 
H
 
अभिनयः - १ साक्षादिवार्थाकारादिप्रदर्शिका हस्तादिक्रिया । यथा
हस्तचेष्टादिना बदरघटाद्याकारेण अल्पस्तनी स्थूलस्तनी इति प्रदर्शनम्
( काव्य० टी० २) । २ अभिलापकशब्दोच्चारणम् । यथा - यत्र
धूमस्तत्र वह्निः इति व्याप्तेरभिनयः इत्यादौ ग्रन्थे अभिनयशब्दस्यार्थः
( त० दी० २ पृ० २० ) । यथा वा पर्वतो वह्निमान् इत्यनुमितेरभिनयः
इत्यादौ ग्रन्थे अभिनयशब्दस्यार्थ: ( सि० च० २ पृ० २३ ) ।
अभिनिवेश: – (क्लेश: ) पूर्वजन्मानुभूतमरणदुःखानुभववासना बलात्सर्वस्
• प्राणभृन्मात्रस्या कृमेरा विदुषः संजायमानः शरीरविषयादेर्मम वियोगो मा
 
७०
 
-