न्यायकोशः /121
This page has not been fully proofread.
न्यायकोशः ।
योजना । तदेव दर्शयामः – केवलदेवदत्ताभावाद्दण्ड विशिष्टदेवदत्ताभावो-
तिरिक्तः । एकसत्त्वेपि द्वौ न स्तः इति प्रतीत्या द्वित्वावच्छिन्नाभावः
संयोगेन घटवति भूतले समवायसंबन्धेन घटाभावः तत्तद्धटाभावा-
द्घटत्वावच्छिन्न प्रतियोगिवाकसामान्याभावश्चातिरिक्तः । एवमन्योन्याभाव-
भेदोपि बोध्यः
अत्यन्ताभावाभावः ध्वंसप्रागभावः प्रागभाव-
ध्वंसश्च नातिरिक्तः । अपि तु प्रतियोगिस्वरूप एवेति प्राञ्चः ।
नव्यास्तु तत्रात्यन्ताभावाभावोतिरिक्त एव । तृतीयाभावश्च प्रथमाभावरूप
इति नानवस्थेति प्राहुः । अन्योन्याभावाभावस्तु स्वप्रतियोगिभेदप्रतियो-
गितावच्छेदकरूप इति बोध्यम् । सौन्दडोपाध्यायः घटत्वेन पटो नास्ति
इति प्रतीत्या व्यधिकरणधर्मावच्छिन्नाभावं स्वीकरोति । इतरे नैयायिकास्तु
तं न स्वीकुर्वन्ति । किंतु घटत्वेन पटो नास्ति इति प्रतीतो पट-
वृत्तिघटत्वाभावमेव विषयं केवलान्वयिनं मन्यन्ते । यस्मिन्भूतलात्मके-
धिकरणे घटो नास्तीत्यादिप्रत्ययस्तस्मात् केवलाधिकरणादेव नास्ति इति
व्यवहारोपपत्तावभावो न पदार्थान्तरम् किं त्वधिकरणात्मक एवेति
प्राभाकरा आहुः ( त० दी० ) (मु० ) ( सि० च० ) ( न्या० म० ) ।
अत्रेदं बोध्यम् - प्रागभावस्योत्तरावधिकत्वम् । प्रध्वंसस्य पूर्वावधिकत्वम् ।
अन्योन्याभावस्य प्रतियोगिसमानाधिकरणत्वम् । अत्यन्ताभावस्य तु
त्रितयवैधर्म्यम् । अतश्चतुर्थोयमभावः (वै० उ०९।१।५) । अत्यन्ताभा-
वोन्योन्याभावश्च प्रत्येकं द्विविधः । एकमात्र पर्याप्तवृत्तिकधर्मावच्छिन्न प्रतियो-
गिताकः व्यासज्यवृत्तिधर्मावच्छिन्न प्रतियोगिताकश्च । तत्राद्यो यथा घट-
त्वावच्छिन्नाभावः । घटत्वादेः प्रत्येकमपि पर्याप्तत्वात् । एकत्रापि अयं
घटः इति घटत्वप्रतीतेः ( म०प्र० १३ ) । द्वितीयः एकघटवति
द्वित्वावच्छिन्नाभावः ( न्या० म० ११ १२) । घटवति घटपटौ न स्तः
एकघटवति न घटौ घटो न घटपटौ एको न द्वौ इति प्रतीतिभ्य
एकघटवति द्वित्वावच्छिन्नोभयात्यन्ताभावस्य एकस्मिन्नुभयान्योन्याभावस्य
च सत्त्वात् ( न्या० म० ११ १२ ) ( स० प्र० १३) । अन्येपि केचि-
.
in